प्राणिनां धर्मसंज्ञानां नराणां नीचजन्मनाम्। त्रीणिवर्षसहस्राणि त्रेतायुगमिहोच्यते
तस्य तावच्छती संध्या द्विगुणा परिकीर्तिता। द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः
यत्र सत्यं च सत्वं च क्रिया धर्मो विधीयते। त्रेतायां विकृतिं यांति वर्णा लोभेन संयुताः
चातुर्वर्ण्यस्य वै कृत्यं क्षांतिर्दौर्बल्यमेव च। एषा त्रेतायुगगतिर्विचित्रा देवनिर्मिता
द्वापरं द्विसहस्रं तु वर्षाणां कुरुनन्दन। तस्य तावच्छती सन्ध्या द्विगुणं युगमुच्यते
तत्राप्यतीवार्थपराः प्राणिनो रजसा हताः। शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुनन्दन
द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः। विपर्ययशतैर्धर्मः क्षयमेति कलौ युगे
ब्रह्मण्यभावश्च्यवते तथास्तिक्यं विवर्ज्यते। व्रतोपवासास्त्यज्यंते कलौ वै युगपर्यये
तदा वर्षसहस्रं तु वर्षाणां द्वे शते तथा। यत्राधर्मश्चतुष्पादो धर्मः पादपरिग्रहः
कामिनस्तापसाः क्षुद्रा जायंते यत्र मानवाः। न चावसायिकः कश्चिन्न साधुर्न च सत्यवाक्
नास्तिका ब्राह्मणा भक्ता ज्ञायंते तत्र मानवाः। अहंकारगृहीताश्च प्रक्षीणस्नेहबंधनाः
विप्राः शूद्रसमाचारास्संति सर्वे कलौ युगे। आश्रमाणां विपर्यासः कलौ संप्रति वर्तते
वर्णानां चैव संदेहो युगांते कुरुनंदन। एषा द्वादशसाहस्री युगाख्या पूर्वनिर्मिता
सहस्रयुगपर्यंतं तदहर्ब्राह्ममुच्यते। ततो ह निगते तस्मिन्सर्वेषामेव जीविनाम्
शरीरनिर्वृतिं दृष्ट्वा कालः संहारबुद्धिमान्। देवतानां च सर्वेषां ब्राह्मणानां महीपते
दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम्। गंधर्वाणामप्सरसां भुजंगानां च पार्थिव
पर्वतानां नदीनां च पशूनां चैव सत्तम। तिर्यग्योनिगतानां च क्रिमीणां दंशिनां तथा
सर्वभूतपतिः पंच भूत्वा भूतानि भूतकृत्। जगत्संहरणार्थाय कुरुते वैशसं महत्
भूत्वा सूर्यश्चक्षुषी आददानो भूत्वा वायुः प्राणिनां प्राणिजातम्। भूत्वा वह्निर्निर्दहन्सर्वलोकान्भूत्वा मेघो भूय उग्रोऽभ्यवर्षत्
भूत्वा नारायणो योगी सर्वमूर्ति विभावसुः। गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान्
ततः पीत्वार्णवान्सर्वान्नदीकूपांश्च सर्वतः। पर्वतानां च सलिलं सर्वमादाय योगवित्1.39.
भूत्वा चैव स हस्तार्चिर्महीं भित्वा रसातले। रमते जलमादाय पिबन्रसमनुत्तमं
मूर्त्तामूर्त्ते तदन्यच्च यदस्ति प्राणिषु ध्रुवं। तत्सर्वमरविंदाक्ष आदत्ते पुरुषोत्तमः
वायुश्च बलवान्भूत्वा विधुन्वानोऽखिलं जगत्। प्राणापानं समासाद्य वायुना क्रमते हरिः
ततो देवगणानां च सर्वेषां चैव देहिनाम्। पंचेंद्रियगुणास्सर्वे भूतान्येव च यानि च
घ्रेयं घ्राणं शरीरं च पृथिवीसंश्रिता गुणाः। लोकयात्रा भगवता मुहूर्तेन विनाशिता
जिह्वारसश्च स्नेहश्च संश्रिताः सलिले गुणाः। रूपं चक्षुर्विभागश्च नेत्र ज्योतिः श्रिता गुणाः
स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः। शब्दः श्रोत्रे च श्रवणं गगनं संश्रिता गुणाः
मनो बुद्धिश्च चित्तं च क्षेत्रज्ञं चेति संश्रिताः। परेण परमेष्ठी च हृषीकेशमुपाश्रिताः
ततो भगवतस्तस्य रश्मिभिः परिवारिताः। वायुना परिनुन्नाश्च भूमिशाखामुपाश्रिताः