कथयामि तु तत्सर्वं यत्र कौतूहलं नृप। सर्वं ते कीर्त्तयिष्यामि येनार्थी नृपनंदन
भीष्म उवाच। कथितं वामनस्यैव माहात्म्यं विस्तरेण वै। पुनस्तस्यैव माहात्म्यमन्यद्विष्णोरतो वद
पद्मं कथमभूद्देव नाभौ येनाभवज्जगत्। कथं च वैष्णवी सृष्टिः पद्ममध्येऽभवत्पुरा
कथं पाद्मे महाकल्पेऽभवत्पद्ममयं जगत्। जलार्णवगतस्येह नाभौ जातं जलानुगं
प्रभावं पद्मनाभस्य स्वपतः सागरांभसि। पुष्करे तु कथं जाता देवा ॠषिगणाः पुरा
एतदाख्याहि निखिलं योगं योगविदां पते। कथं निर्मितवांस्तत्र चैतं लोकं सनातनम्
कथमेकार्णवे शून्ये नष्टे स्थावरजंगमे। भूगोलके प्रदग्धे तु प्रणष्टोरगराक्षसे
नष्टानलानिलाकाशे नष्टधर्मे महीतले। केवले गह्वरीभूते महाभूतविपर्यये
किं नु विश्वपतिः साक्षान्महातेजा महाद्युतिः। आस्ते यथाध्याननिष्ठो विधिमास्थाय योगवित्
शृण्वतः परया भक्त्या ब्रह्मन्नेतदशेषतः। वक्तुमर्हसि धर्मज्ञ यशो नारायणात्मकम्
श्रद्धिनः सूपविष्टस्य भगवन्वक्तुमर्हसि। पुलस्त्य उवाच। नारायणस्य यशसः श्रवणे या तव स्पृहा
सद्वंशान्वयपूतस्य न्याय्यं कुरुकुलोद्वह। शृणुष्वादिपुराणेषु देवेभ्यश्च यथा श्रुति
ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम्। यथा च तपसा दृष्ट्वा बृहस्पति समद्युतिः
पराशरसुतः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत्। तत्तेऽहं कथयिष्यामि यथाभक्ति यथाश्रुति
यद्विज्ञातं मया सम्यगृषिमार्गेण सत्तम। कः समुत्सहते ज्ञातुं परं नारायणात्मकम्
विश्वावितारं ब्रह्मायं न वेदयति तत्वतः। तत्कर्मविश्वदेवा न तद्रहस्यं महर्षिषु
स इज्यस्सर्वयज्ञानां स तत्त्वं तत्त्वदर्शिनाम्। अध्यात्ममध्यात्मविदां नरकं च विकर्मिणाम्
अधिदैवं च तद्दैवमधिदैवतसंज्ञितम्। अधिभूतं च तद्भूतं परं च परमार्थिनाम्
स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुः। यः कर्त्ता कारको बुद्धिर्यतः क्षेत्रज्ञ एव च
प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते। प्राणः पंचविधश्चैव ध्रुवमक्षरमेव च
कालः पाकश्च यज्ञश्च यष्टा चाधीतमेव च। उच्यते विविधैर्भावैः स एवायं तु तत्परम्
स एव भगवान्सर्वं करोति न करोति च। सोस्मिन्कारयते सर्वं स्थानिनां च कृतिः कृता
यजामहे तमेवाद्यं स एवोत्थाननिर्वृतः। यो वक्ता यच्च वक्तव्यं यश्चाहं तद्ब्रवीमि ते
श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्पितम्। या कथायाश्च श्रुतयो यो धर्मी धर्मतत्परः
विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः। यत्सत्यं यदनृतमादिमध्यभूतं यच्चांत्यं निरवधिकं च यद्भविष्यम्
यत्किंचिच्चरमचरं यदस्ति चान्यत्सर्वं तत्पुरुषवरः प्रधानभूतः। चत्वार्य्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती संध्या द्विगुणा कुरुनंदन। यत्र धर्मश्चतुष्पादस्त्वधर्मः पादविग्रहः
स्वधर्मनिरताः शांता जायंते यत्र मानवाः। विप्रा स्थिता धर्मपरा राजवृत्तिस्थिता नृपाः
कृष्यामभिरता वैश्याः शूद्रा शुःश्रूषवस्तथा। तदा सत्यं च सत्वं च धर्मश्चैव विवर्धते
सद्भिराचरितो धर्मो येन लोकः प्रवर्त्तते। एतत्कृतयुगे वृत्तं सर्वेषामेव पार्थिव