दिनानि पंचोषित्वाऽत्र रामो गंतुं मनो दधे। शत्रुघ्नश्च ततो रामे वाजिनोथ गजांस्तथा
कृताकृतं च कनकं तत्रोपायनमाहरत्। रामस्त्वाह ततः प्रीतः सर्वमेतन्मया तव
दत्तं पुत्रौ तेऽभिषिञ्च राजानौ माथुरे जने। एवमुक्त्वा ततो रामः प्राप्तो मध्यंदिने रवौ
महोदयं समासाद्य गंगातीरे स वामनं। प्रतिष्ठाप्य द्विजानाह भाविनः पार्थिवांस्तथा
मया कृतोऽयं धर्मस्य सेतुर्भूतिविवर्धनः। प्राप्ते काले पालनीयो न च लोप्यः कथंचन
प्रसारितकरेणैवं प्रार्थनैषा मया कृता। नृपाः कृते मयार्थित्वे यत्क्षेमं क्रियतामिह
नित्यं दैनंदिनीपूजा कार्या सर्वैरतंद्रितैः। ग्रामान्दत्वा धनं तच्च लंकाया आहृतं च यत्
प्रेषयित्वा च किष्किंधां सुग्रीवं वानरेश्वरं। अयोध्यामागतो रामः पुष्पकं तमथाब्रवीत्
नागंतव्यं त्वया भूयस्तिष्ठ यत्र धनेश्वरः। कृतकृत्यस्ततो रामः कर्तव्यं नाप्यमन्यत
पुलस्त्य उवाच। एवन्ते भीष्म रामस्य कथायोगेन पार्थिव। उत्पत्तिर्वामनस्योक्ता किं भूयः श्रोतुमिच्छसि
कथयामि तु तत्सर्वं यत्र कौतूहलं नृप। सर्वं ते कीर्त्तयिष्यामि येनार्थी नृपनंदन
भीष्म उवाच। कथितं वामनस्यैव माहात्म्यं विस्तरेण वै। पुनस्तस्यैव माहात्म्यमन्यद्विष्णोरतो वद
पद्मं कथमभूद्देव नाभौ येनाभवज्जगत्। कथं च वैष्णवी सृष्टिः पद्ममध्येऽभवत्पुरा
कथं पाद्मे महाकल्पेऽभवत्पद्ममयं जगत्। जलार्णवगतस्येह नाभौ जातं जलानुगं
प्रभावं पद्मनाभस्य स्वपतः सागरांभसि। पुष्करे तु कथं जाता देवा ॠषिगणाः पुरा
एतदाख्याहि निखिलं योगं योगविदां पते। कथं निर्मितवांस्तत्र चैतं लोकं सनातनम्
कथमेकार्णवे शून्ये नष्टे स्थावरजंगमे। भूगोलके प्रदग्धे तु प्रणष्टोरगराक्षसे
नष्टानलानिलाकाशे नष्टधर्मे महीतले। केवले गह्वरीभूते महाभूतविपर्यये
किं नु विश्वपतिः साक्षान्महातेजा महाद्युतिः। आस्ते यथाध्याननिष्ठो विधिमास्थाय योगवित्
शृण्वतः परया भक्त्या ब्रह्मन्नेतदशेषतः। वक्तुमर्हसि धर्मज्ञ यशो नारायणात्मकम्
श्रद्धिनः सूपविष्टस्य भगवन्वक्तुमर्हसि। पुलस्त्य उवाच। नारायणस्य यशसः श्रवणे या तव स्पृहा
सद्वंशान्वयपूतस्य न्याय्यं कुरुकुलोद्वह। शृणुष्वादिपुराणेषु देवेभ्यश्च यथा श्रुति
ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम्। यथा च तपसा दृष्ट्वा बृहस्पति समद्युतिः
पराशरसुतः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत्। तत्तेऽहं कथयिष्यामि यथाभक्ति यथाश्रुति
यद्विज्ञातं मया सम्यगृषिमार्गेण सत्तम। कः समुत्सहते ज्ञातुं परं नारायणात्मकम्
विश्वावितारं ब्रह्मायं न वेदयति तत्वतः। तत्कर्मविश्वदेवा न तद्रहस्यं महर्षिषु
स इज्यस्सर्वयज्ञानां स तत्त्वं तत्त्वदर्शिनाम्। अध्यात्ममध्यात्मविदां नरकं च विकर्मिणाम्
अधिदैवं च तद्दैवमधिदैवतसंज्ञितम्। अधिभूतं च तद्भूतं परं च परमार्थिनाम्
स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुः। यः कर्त्ता कारको बुद्धिर्यतः क्षेत्रज्ञ एव च
प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते। प्राणः पंचविधश्चैव ध्रुवमक्षरमेव च