कालश्च कालरूपी च नीलग्रीवो विदांवरः। वेदकर्तार्भको नित्यः पशूनां पतिरव्ययः
दर्भपाणिर्हंसकेतुः कर्ता हर्ता हरो हरिः। जटी मुंडी शिखी दंडी लगुडी च महायशाः
भूतेश्वरः सुराध्यक्षः सर्वात्मा सर्वभावनः। सर्वगः सर्वहारी च स्रष्टा च गुरुरव्ययः
कमंडलुधरो देवः स्रुक्स्रुवादिधरस्तथा। हवनीयोऽर्चनीयश्च ॐकारो ज्येष्ठसामगः
मृत्युश्चैवामृतश्चैव पारियात्रश्च सुव्रतः। ब्रह्मचारी व्रतधरो गुहावासी सुपङ्कजः
अमरो दर्शनीयश्च बालसूर्यनिभस्तथा। दक्षिणे वामतश्चापि पत्नीभ्यामुपसेवितः
भिक्षुश्च भिक्षुरूपश्च त्रिजटी लब्धनिश्चयः। चित्तवृत्तिकरः कामो मधुर्मधुकरस्तथा
वानप्रस्थो वनगत आश्रमी पूजितस्तथा। जगद्धाता च कर्त्ता च पुरुषः शाश्वतो ध्रुवः
धर्माध्यक्षो विरूपाक्षस्त्रिधर्मो भूतभावनः। त्रिवेदो बहुरूपश्च सूर्यायुतसमप्रभः
मोहकोवंधकश्चैवदानवानांविशेषतः। देवदेवश्च पद्माङ्कस्त्रिनेत्रोऽब्जजटस्तथा
हरिश्मश्रुर्धनुर्धारी भीमो धर्मपराक्रमः। एवं स्तुतस्तु रामेण ब्रह्मा ब्रह्मविदांवरः
उवाच प्रणतं रामं करे गृह्य पितामहः। विष्णुस्त्वं मानुषे देहेऽवतीर्णो वसुधातले
कृतं तद्भवता सर्वं देवकार्यं महाविभो। संस्थाप्य वामनं देवं जाह्नव्या दक्षिणे तटे
अयोध्यां स्वपुरीं गत्वा सुरलोकं व्रजस्व च। विसृष्टो ब्रह्मणा रामः प्रणिपत्य पितामहं
आरूढः पुष्पकं यानं संप्राप्तो मधुरां पुरीम्। समीक्ष्य पुत्रसहितं शत्रुघ्नं शत्रुघातिनं
तुतोष राघवः श्रीमान्भरतः स हरीश्वरः। शत्रुघ्नो भ्रातरौ प्राप्तौ शक्रोपेन्द्राविवागतौ
प्रणिपत्य ततो मूर्ध्ना पंचांगालिंगितावनिः। उत्थाप्य चांकमारोप्य रामो भ्रातरमंजसा
भरतश्च ततः पश्चात्सुग्रीवस्तदनंतरं। उपविष्टोऽथ रामाय सोऽर्घमादाय सत्वरं
राज्यं निवेदयामास चाष्टांगं राघवे तदा। श्रुत्वा प्राप्तं ततो रामं सर्वो वै माथुरो जनः
वर्णा ब्राह्मणभूयिष्ठा द्रष्टुमेनं समागताः। संभाष्य प्रकृतीः सर्वा नैगमान्ब्राह्मणैः सह
दिनानि पंचोषित्वाऽत्र रामो गंतुं मनो दधे। शत्रुघ्नश्च ततो रामे वाजिनोथ गजांस्तथा
कृताकृतं च कनकं तत्रोपायनमाहरत्। रामस्त्वाह ततः प्रीतः सर्वमेतन्मया तव
दत्तं पुत्रौ तेऽभिषिञ्च राजानौ माथुरे जने। एवमुक्त्वा ततो रामः प्राप्तो मध्यंदिने रवौ
महोदयं समासाद्य गंगातीरे स वामनं। प्रतिष्ठाप्य द्विजानाह भाविनः पार्थिवांस्तथा
मया कृतोऽयं धर्मस्य सेतुर्भूतिविवर्धनः। प्राप्ते काले पालनीयो न च लोप्यः कथंचन
प्रसारितकरेणैवं प्रार्थनैषा मया कृता। नृपाः कृते मयार्थित्वे यत्क्षेमं क्रियतामिह
नित्यं दैनंदिनीपूजा कार्या सर्वैरतंद्रितैः। ग्रामान्दत्वा धनं तच्च लंकाया आहृतं च यत्
प्रेषयित्वा च किष्किंधां सुग्रीवं वानरेश्वरं। अयोध्यामागतो रामः पुष्पकं तमथाब्रवीत्
नागंतव्यं त्वया भूयस्तिष्ठ यत्र धनेश्वरः। कृतकृत्यस्ततो रामः कर्तव्यं नाप्यमन्यत
पुलस्त्य उवाच। एवन्ते भीष्म रामस्य कथायोगेन पार्थिव। उत्पत्तिर्वामनस्योक्ता किं भूयः श्रोतुमिच्छसि