तप्यमानाय तप्याय ब्रह्मण्याय जयाय च। विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते
नमो नमोस्तु दिव्याय प्रपन्नार्तिहराय च। भक्तानुकंपिने देव विश्वतेजो मनोगते
पुलस्त्य उवाच। एवं संस्तूयमानस्तु देवदेवो हरो नृप। उवाच राघवं वाक्यं भक्तिनम्रं पुरास्थितम्
रुद्र उवाच। भो भो राघव भद्रं ते ब्रूहि यत्ते मनोगतम्। भवान्नारायणो नूनं गूढो मानुषयोनिषु
अवतीर्णो देवकार्यं कृतं तच्चानघ त्वया। इदानीं स्वं व्रजस्थानं कृतकार्योसि शत्रुहन्
त्वया कृतं परं तीर्थं सेत्वाख्यं रघुनंदन। आगत्य मानवा राजन्पश्येयुरिह सागरे
महापातकयुक्ता ये तेषां पापं विलीयते। ब्रह्मवध्यादिपापानि यानि कष्टानि कानिचित्1.38.
दर्शनादेव नश्यंति नात्र कार्या विचारणा। गच्छ त्वं वामनं स्थाप्य गंगातीरे रघूत्तम
पृथिव्यां सर्वशः कृत्वा भागानष्टौ परंतप। श्वेतद्वीपं स्वकं स्थानं व्रज देव नमोस्तु ते
प्रणिपत्य ततो रामस्तीर्थं प्राप्तश्च पुष्करम्। विमानं तु न यात्यूर्ध्वं वेष्टितं तत्तु राघवः
किमिदं वेष्टितं यानं निरालंबेऽम्बरे स्थितम्। भवितव्यं कारणेन पश्येत्याह स्म वानरम्
सुग्रीवो रामवचनादवतीर्य धरातले। स च पश्यति ब्रह्माणं सुरसिद्धसमन्वितम्
ब्रह्मर्षिसङ्घसहितं चतुर्वेदसमन्वितम्। दृष्ट्वाऽऽगत्याब्रवीद्रामं सर्वलोकपितामहः
सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः। तं देवं पुष्पकं नैव लंघयेद्धि पितामहम्
अवतीर्य ततो रामः पुष्पकाद्धेमभूषितात्। नत्वा विरिंचनं देवं गायत्र्या सह संस्थितम्
अष्टांगप्रणिपातेन पंचांगालिंगितावनिः। तुष्टाव प्रणतो भूत्वा देवदेवं विरिंचनम्
राम उवाच। नमामि लोककर्तारं प्रजापतिसुरार्चितम्। देवनाथं लोकनाथं प्रजानाथं जगत्पतिम्
नमस्ते देवदेवेश सुरासुरनमस्कृत। भूतभव्यभवन्नाथ हरिपिंगललोचन
बालस्त्वं वृद्धरूपी च मृगचर्मासनांबरः। तारणश्चासि देवस्त्वं त्रैलोक्यप्रभुरीश्वरः
हिरण्यगर्भः पद्मगर्भः वेदगर्भः स्मृतिप्रदः। महासिद्धो महापद्मी महादंडी च मेखली
कालश्च कालरूपी च नीलग्रीवो विदांवरः। वेदकर्तार्भको नित्यः पशूनां पतिरव्ययः
दर्भपाणिर्हंसकेतुः कर्ता हर्ता हरो हरिः। जटी मुंडी शिखी दंडी लगुडी च महायशाः
भूतेश्वरः सुराध्यक्षः सर्वात्मा सर्वभावनः। सर्वगः सर्वहारी च स्रष्टा च गुरुरव्ययः
कमंडलुधरो देवः स्रुक्स्रुवादिधरस्तथा। हवनीयोऽर्चनीयश्च ॐकारो ज्येष्ठसामगः
मृत्युश्चैवामृतश्चैव पारियात्रश्च सुव्रतः। ब्रह्मचारी व्रतधरो गुहावासी सुपङ्कजः
अमरो दर्शनीयश्च बालसूर्यनिभस्तथा। दक्षिणे वामतश्चापि पत्नीभ्यामुपसेवितः
भिक्षुश्च भिक्षुरूपश्च त्रिजटी लब्धनिश्चयः। चित्तवृत्तिकरः कामो मधुर्मधुकरस्तथा
वानप्रस्थो वनगत आश्रमी पूजितस्तथा। जगद्धाता च कर्त्ता च पुरुषः शाश्वतो ध्रुवः
धर्माध्यक्षो विरूपाक्षस्त्रिधर्मो भूतभावनः। त्रिवेदो बहुरूपश्च सूर्यायुतसमप्रभः
मोहकोवंधकश्चैवदानवानांविशेषतः। देवदेवश्च पद्माङ्कस्त्रिनेत्रोऽब्जजटस्तथा