आनीय चार्पयद्रामे वाक्यं चेदमुवाच ह। यदा वै निर्जितः शक्रो मेघनादेन राघव
तदा वै वामनस्त्वेष आनीतो जलजेक्षण। नयस्व तमिमं देव देवदेवं प्रतिष्ठय
तथेति राघवः कृत्वा पुष्पकं च समारुहत्। धनं रत्नमसंख्येयं वामनं च सुरोत्तमम्
गृह्य सुग्रीवभरतावारूढौ वामनादनु। व्रजन्नेवांबरे रामस्तिष्ठेत्याह विभीषणम्
राघवस्य वचः श्रुत्वा भूयोप्याह स राघवम्। करिष्ये सर्वमेतद्धि यदाज्ञप्तं विभो त्वया
सेतुनानेन राजेंद्र पृथिव्यां सर्वमानवाः। आगत्य प्रतिबाधेरन्नाज्ञाभंगो भवेत्तव
कोत्र मे नियमो देव किन्नु कार्यं मया विभो। श्रुत्वैतद्राघवो वाक्यं राक्षसोत्तमभाषितम्
कार्मुकं गृह्य हस्तेन रामः सेतुं द्विधाच्छिनत्। त्रिर्विभज्य च वेगेन मध्ये वै दशयोजनम्
छित्वा तु योजनं चैकमेकं खंडत्रयं कृतम्। वेलावनं समासाद्य रामः पूजां रमापतेः
कृत्वा रामेश्वरं नाम्ना देवदेवं जनार्दनं। अभिषिच्याथ संगृह्य वामनं रघुनंदनः
दक्षिणादुदधेश्चैव निर्जगाम त्वरान्वितः। अंतरिक्षादभूद्वाणी मेघगंभीरनिःस्वना
रुद्र उवाच। भो भो रामास्तु भद्रं ते स्थितोऽहमिह सांप्रतम्। यावज्जगदिदं राम यावदेषा धरा स्थिता
तावदेव च ते सेतु तीर्थं स्थास्यति राघव। श्रुत्वैवं देवदेवस्य गिरं ताममृतोपमाम्
राम उवाच। नमस्ते देवदेवेश भक्तानामभयंकर। गौरीकांत नमस्तुभ्यं दक्षयज्ञविनाशन
नमो भवाय शर्वाय रुद्राय वरदाय च। पशूनांपतये नित्यं चोग्राय च कपर्दिने
महादेवाय भीमाय त्र्यंबकाय दिशांपते। ईशानाय भगघ्नाय नमोस्त्वंधकघातिने
नीलग्रीवाय घोराय वेधसे वेधसा स्तुत। कुमारशत्रुनिघ्नाय कुमारजननाय च
विलोहिताय धूम्राय शिवाय क्रथनाय च। नमो नीलशिखंडाय शूलिने दैत्यनाशिने
उग्राय च त्रिनेत्राय हिरण्यवसुरेतसे। अनिंद्यायांबिकाभर्त्रे सर्वदेवस्तुताय च
अभिगम्याय काम्याय सद्योजाताय वै नमः। वृषध्वजाय मुंडाय जटिने ब्रह्मचारिणे
तप्यमानाय तप्याय ब्रह्मण्याय जयाय च। विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते
नमो नमोस्तु दिव्याय प्रपन्नार्तिहराय च। भक्तानुकंपिने देव विश्वतेजो मनोगते
पुलस्त्य उवाच। एवं संस्तूयमानस्तु देवदेवो हरो नृप। उवाच राघवं वाक्यं भक्तिनम्रं पुरास्थितम्
रुद्र उवाच। भो भो राघव भद्रं ते ब्रूहि यत्ते मनोगतम्। भवान्नारायणो नूनं गूढो मानुषयोनिषु
अवतीर्णो देवकार्यं कृतं तच्चानघ त्वया। इदानीं स्वं व्रजस्थानं कृतकार्योसि शत्रुहन्
त्वया कृतं परं तीर्थं सेत्वाख्यं रघुनंदन। आगत्य मानवा राजन्पश्येयुरिह सागरे
महापातकयुक्ता ये तेषां पापं विलीयते। ब्रह्मवध्यादिपापानि यानि कष्टानि कानिचित्1.38.
दर्शनादेव नश्यंति नात्र कार्या विचारणा। गच्छ त्वं वामनं स्थाप्य गंगातीरे रघूत्तम
पृथिव्यां सर्वशः कृत्वा भागानष्टौ परंतप। श्वेतद्वीपं स्वकं स्थानं व्रज देव नमोस्तु ते
प्रणिपत्य ततो रामस्तीर्थं प्राप्तश्च पुष्करम्। विमानं तु न यात्यूर्ध्वं वेष्टितं तत्तु राघवः