इमौ ते चरणौ देवि मानवो यदि पश्यति। पूर्णस्स्यात्तदहं प्रीतो दृष्ट्वेमौ पुत्रवत्सले
कौसल्या मे यथा माता भवती च तथा मम। केकसी चाब्रवीद्रामं चिरं जीव सुखी भव
भर्त्रा मे कथितं वीर विष्णुर्मानुषरूपधृत्। अवतीर्णो रघुकुले हितार्थेत्र दिवौकसाम्
दशग्रीव विनाशाय भूतिं दातुं विभीषणे। वालिनो निधनं चैव सेतुबंधं च सागरे
पुत्रो दशरथस्यैव सर्वं स च करिष्यति। इदानीं त्वं मया ज्ञातः स्मृत्वा तद्भर्तृभाषितम्
सीता लक्ष्मीर्भवान्विष्णुर्देवा वै वानरास्तथा। गृहं पुत्र गमिष्यामि स्थिरकीर्तिमवाप्नुहि
सरमोवाच। इहैव वत्सरं पूर्णमशोकवनिकास्थिता। सेविता जानकी देव सुखं तिष्ठति ते प्रिया
नित्यं स्मरामि वै पादौ सीतायास्तु परंतप। कदा द्रक्ष्यामि तां देवीं चिंतयाना त्वहर्निशम्
किमर्थं देवदेवेन नानीता जानकी त्विह। एकाकी नैव शोभेथा योषिता च तया विना
समीपे शोभते सीता त्वं च तस्याः परंतप। एवं ब्रुवन्त्यां भरतः केयमित्यब्रवीद्वचः
ततश्चेंगितविद्रामो भरतं प्राह सत्वरम्। विभीषणस्य भार्या वै सरमा नाम नामतः
प्रिया सखी महाभागा सीतायास्सुदृढं मता। सर्वंकालकृतं पश्य न जाने किं करिष्यति
गच्छ त्वं सुभगे भर्तृगेहं पालय शोभने। मां त्यक्त्वा हि गता देवी भाग्यहीनं गतिर्यथा
तया विरहितः सुभ्रु रतिं विंदे न कर्हिचित्। शून्या एव दिशः सर्वाः पश्यामीह पुनर्भ्रमन्
विसृज्यतां च सरमां सीतायास्तु प्रियां सखीम्। गतायामथ केकस्यां रामः प्राह विभीषणम्
दैवतेभ्यः प्रियं कार्यं नापराध्यास्त्वया सुराः। आज्ञया राजराजस्य वर्तितव्यं त्वयानघ
लंकायां मानुषो यो वै समागच्छेत्कथंचन। राक्षसैर्न च हंतव्यो द्रष्टव्योसौ यथा त्वहम्
विभीषण उवाच। आज्ञयाहं नरव्याघ्र करिष्ये सर्वमेव तु। विभीषणे हि वदति वायू राममुवाच ह
इहास्तिवैष्णवी मूर्तिः पूर्वं बद्धो बलिर्यया। तां नयस्व महाभाग कान्यकुब्जे प्रतिष्ठय
विदित्वा तदभिप्रायं वायुना समुदाहृतम्। विभीषणस्त्वलंकृत्य रत्नैः सर्वैश्च वामनम्
आनीय चार्पयद्रामे वाक्यं चेदमुवाच ह। यदा वै निर्जितः शक्रो मेघनादेन राघव
तदा वै वामनस्त्वेष आनीतो जलजेक्षण। नयस्व तमिमं देव देवदेवं प्रतिष्ठय
तथेति राघवः कृत्वा पुष्पकं च समारुहत्। धनं रत्नमसंख्येयं वामनं च सुरोत्तमम्
गृह्य सुग्रीवभरतावारूढौ वामनादनु। व्रजन्नेवांबरे रामस्तिष्ठेत्याह विभीषणम्
राघवस्य वचः श्रुत्वा भूयोप्याह स राघवम्। करिष्ये सर्वमेतद्धि यदाज्ञप्तं विभो त्वया
सेतुनानेन राजेंद्र पृथिव्यां सर्वमानवाः। आगत्य प्रतिबाधेरन्नाज्ञाभंगो भवेत्तव
कोत्र मे नियमो देव किन्नु कार्यं मया विभो। श्रुत्वैतद्राघवो वाक्यं राक्षसोत्तमभाषितम्
कार्मुकं गृह्य हस्तेन रामः सेतुं द्विधाच्छिनत्। त्रिर्विभज्य च वेगेन मध्ये वै दशयोजनम्
छित्वा तु योजनं चैकमेकं खंडत्रयं कृतम्। वेलावनं समासाद्य रामः पूजां रमापतेः
कृत्वा रामेश्वरं नाम्ना देवदेवं जनार्दनं। अभिषिच्याथ संगृह्य वामनं रघुनंदनः