न मे स्वर्गो बहुमतस्त्वया हीनस्य राघव। तारितोहं त्वया पुत्र प्राप्तोऽस्मीन्द्रसलोकताम्
लक्ष्मणं चाब्रवीद्राजा पुत्र पुण्यं त्वयार्जितम्। भ्रात्रासममथो दिव्यांल्लोकान्प्राप्स्यसि चोत्तमान्
आहूय जानकीं राजा वाक्यं चेदमुवाच ह। न च मन्युस्त्वया कार्यो भर्तारं प्रति सुव्रते
ख्यातिर्भविष्यत्येवाग्र्या भर्तुस्ते शुभलोचने। एवं वदति रामे तु पुष्पके च व्यवस्थिते
तत्र ये राक्षसवरास्ते गत्वाशु विभीषणं। प्राप्तो रामः ससुग्रीवश्चारा इत्थं तदाऽवदन्
विभीषणस्तु तच्छ्रुत्वा रामागमनमंतिके। चारांस्तान्पूजयामास सर्वकामधनादिभिः
अलंकृत्य पुरीं तां तु निष्क्रान्तः सचिवैः सह। दृष्ट्वा रामं विमानस्थं मेराविव दिवाकरं
अष्टांगप्रणिपातेन नत्वा राघवमब्रवीत्। अद्य मे सफलं जन्म प्राप्ताः सर्वे मनोरथाः
यद्दृष्टौ देवचरणौ जगद्वंद्यावनिंदितौ। कृतः श्लाघ्योस्म्यहं देव शक्रादीनां दिवौकसां
आत्मानमधिकं मन्ये त्रिदशेशात्पुरंदरात्। रावणस्य गृहे दीप्ते सर्वरत्नोपशोभिते
उपविष्टे तु काकुत्स्थे अर्घं दत्वा विभीषणः। उवाच प्रांजलिर्भूत्वा सुग्रीवं भरतं तथा
इहागतस्य रामस्य यद्दास्ये न तदस्ति मे। इयं च लंका रामेण रिपुं त्रैलोक्यकंटकम्
हत्वा तु पापकर्माणं दत्ता पूर्वं पुरी मम। इयं पुरी इमे दारा अमी पुत्रास्तथा ह्यहं
सर्वमेतन्मया दत्तं सर्वमक्षयमस्तु ते। ततः प्रकृतयः सर्वा लंकावासिजनाश्च ये
आजग्मू राघवं द्रष्टुं कौतूहलसमन्विताः। उक्तो विभीषणस्तैस्तु रामं दर्शय नः प्रभो
विभीषणेन कथिता राघवाय महात्मने। तेषामुपायनं सर्वं भरतो रामचोदितः
जग्राह वानरेन्द्रश्च धनरत्नौघसंचयं। एवं तत्र त्र्यहं रामो ह्यवसद्राक्षसालये
चतुर्थेहनि संप्राप्ते रामे चापि सभास्थिते। केकसी पुत्रमाहेदं रामं द्रक्ष्यामि पुत्रक
दृष्टे तस्मिन्महत्पुण्यं प्राप्यते मुनिसत्तमैः। विष्णुरेष महाभागश्चतुर्मूर्तिस्सनातनः
सीता लक्ष्मीर्महाभाग न बुद्धा साग्रजेन ते। पित्रा ते पूर्वमाख्यातं देवानां दिविसंगमे
कुले रघूणां वै विष्णुः पुत्रो दशरथस्य तु। भविष्यति विनाशाय दशग्रीवस्य रक्षसः
विभीषण उवाच। एवं कुरुष्व वै मातर्गृहाण नवमं वरम्। पात्रं चंदनसंयुक्तं दधिक्षौद्राक्षतैः सह
दूर्वयार्घं सह कुरु राजपुत्रस्य दर्शनम्। सरमामग्रतः कृत्वा याश्चान्या देवकन्यकाः
व्रजस्व राघवाभ्याशं तस्मादग्रे व्रजाम्यहम्। एवमुक्त्वा गतं रक्षो यत्र रामो व्यवस्थितः
उत्सार्य दानवान्सर्वान्रामं द्रष्टुं समागतान्। सभां तां विमलां कृत्वा रामं स्वाभिमुखे स्थितम्
विभीषण उवाच। विज्ञाप्यं शृणु मे देव वदतश्च विशांपते। दशग्रीवं कुंभकर्णं या च मां चाप्यजीजनत्
इयं सा देवमाता नः पादौ ते द्रष्टुमिच्छति। तस्यास्तु त्वं कृपां कृत्वा दर्शनं दातु मर्हसि1.38.
राम उवाच। अहं तस्याः समीपं तु मातृदर्शनकांक्षया। गमिष्ये राक्षसेंद्र त्वं शीघ्रं याहि ममाग्रतः
प्रतिज्ञाय तु तं वाक्यमुत्तस्थौ च वरासनात्। मूर्ध्नि चांजलिमाधाय प्रणाममकरोद्विभुः
अभिवादयेहं भवतीं माता भवसि धर्मतः। महता तपसा चापि पुण्येन विविधेन च