लंबेदधःशिरा यस्तु वर्षाणामयुतं नरः । मासमेकं तु गंगांभः सेवते यो नरोत्तमः
ब्रह्महत्याविनिर्मुक्तो याति विष्णोरनामयम् । इयं वेणीसमा पुण्या पवित्रा पापनाशिनी
यस्याः स्मरणमात्रेण बालहा मुच्यते क्षणात् । स प्रयागस्तीर्थराजो वैष्णवानां हि दुर्ल्लभः
स्नात्वा यत्र नरश्रेष्ठ वैकुंठे सत्वरं व्रजेत् । प्रियाप्रिये न जानाति धर्माधर्मौ न विंदति
स्नात्वा चैव तु गंगायां महापापात्प्रमुच्यते
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
ब्रह्महा चैव गोघ्नो वा सुरापी बालघातकः । मुच्यते सर्वपापेभ्यो दिवं याति च सत्वरम्
दर्शनं माधवस्याथ वरस्य दर्शनं तथा । वेण्यां स्नानं प्रकुर्वाणो वैकुंठं प्रति गच्छति
उदिते च यथा सूर्ये विलयं याति वै तमः । तथैव तस्यां पापानि नश्यंति स्नानमात्रतः
गंगाद्वारे कुशावर्ते गल्लिके(बिल्वके?) नीलपर्वते । स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते
एवं ज्ञात्वा नरश्रेष्ठो गंगास्नायी पुनःपुनः । स्नानमात्रेण भो राजन्मुच्यते किल्बिषादतः
देवानां प्रवरो विष्णुर्यज्ञानां चाश्वमेधकः । अश्वत्थः सर्ववृक्षाणां नदी भागीरथी सदा
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे गंगामाहात्म्यंनामैकाशीतितमोऽध्यायः
महादेव उवाच- अस्मिन्वै चैत्रमासे तु कार्यो दमनकोत्सवः । द्वादश्यां तु तथा सम्यग्विधिः कार्यो विशेषतः
वैष्णवैः श्रद्धया पुण्यो जनतानंदवर्द्धनः । देवानंदसमुद्भूता दिव्या दमनमंजरी
निवेद्या वैष्णवैर्भक्तैः सर्वपूजाफलेप्सुभिः । चैत्रे तु शुक्लपक्षे तु द्वादश्यां नगनंदिनि
कारयेत्परया भक्त्या महोत्सवमनास्तथा । तत्रादौ च स्वयं गत्वा आरामं प्रति चानघे
गुर्वाज्ञया प्रकर्त्तव्यं पूजनं रतिना सह । कामदेव नमस्तेऽस्तु विश्वमोहनकारक
विष्णोरर्थे विचेष्यामि कृपां कुरु ममोपरि । गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति
एकादश्यां सुरश्रेष्ठि ह्यधिवासनपूर्वकम् । कर्त्तव्यं पूजनं तत्र रात्रौ भक्त्या तु वैष्णवैः
कर्त्तव्यमग्रतस्तस्य सर्वतोभद्र मंडलम् । स्थापयित्वा तु देवेशं रतिना सह तत्र वै
आच्छाद्य श्वेतवस्त्रेण दमनं स्थापयेद्बुधः । तत्र वै पूजनं कार्यं वैष्णवैर्द्विजसत्तमैः
क्लीं कामदेवाय नमो ह्रीं रत्यै च तथा नमः । एंद्र्यादि दिशि संस्थाप्य कंदर्प्पं पूजयेद्बुधः
गंधं पुष्पं तथा धूपं दीपमारार्तिकं तथा । रात्रौ भक्त्या प्रकर्त्तव्यं विधिनात्र सुरेश्वरि
मदनाय नम इति प्राच्याम् । मन्मथाय नम इति आग्न्येय्याम् । कंदर्पाय नम इति याम्ये । अनंगाय नम इति रक्षोदिशि । भस्मशरीराय नमः इति वारुण्याम् । स्मराय नम इति वायव्याम् । ईश्वराय नमः इति कौबेर्याम् । पुष्पबाणाय नमः इति ईशान्याम् । चतुर्दिक्षु च सर्वासु पूजनं तत्र कारयेत् । पूजिते केशवे चात्र सर्वे देवाः सुपूजिताः
अक्षतगंध धूपदीपैर्नैवेद्यैस्तांबूलैश्च दमनकं पूजयित्वा तु । तत्पुरुषाय विद्महे कामदेवाय धीमहि । तन्नोऽनंगः प्रचोदयात् । इति वै कामगायत्र्या अष्टोत्तरशतवारं तं दमनकं अभिमंत्र्य नमस्कुर्यात् । नमोस्तु पुष्पबाणाय जगदाह्लादकारिणे । मन्मथाय जगन्नेत्रे रतिप्रीतिकराय च
देवदेव नमस्तेऽस्तु श्रीविश्वेश नमोस्तु ते । रतिपते नमस्तेस्तु नमस्ते विश्वमंडन
नमस्तेस्तु जगन्नाथ सर्वबीज नमोस्तु ते । एतैर्नानाविधैर्मंत्रैरागमोक्तैर्विशेषतः
पूजनीयः प्रयत्नेन लक्ष्म्या सह जनार्दनः । ततो निवेद्य तत्कर्म जागरं कारयेद्बुधः
देवदेव जगन्नाथ वांच्छितार्थप्रदायक । हृत्स्थान्पूरय मे विष्णो कामान्कामेश्वरीप्रिय