प्रथमे दिवसे बद्धो योजनानि चतुर्दश। द्वितीयेहनि षट्त्रिंशत्तृतीयेर्धशतं तथा
इयं सा दृश्यते लंका स्वर्णप्राकारतोरणा। अवरोधो महानत्र कृतो वानरसत्तमैः
अत्र युद्धं महद्वृत्तं चैत्राशुक्लचतुर्दशि। अष्टचत्वारिंशद्दिनं यत्रासौ रावणो हतः
अत्र प्रहस्तो नीलेन हतो राक्षसपुंगवः। हनूमता च धूम्राक्षो ह्यत्रैव विनिपातितः
महोदरातिकायौ च सुग्रीवेण महात्मना। अत्रैव मे कुंभकर्णो लक्ष्मणेनेंद्रजित्तथा
मया चात्र दशग्रीवो हतो राक्षसपुंगवः। अत्र संभाषितुं प्राप्तो ब्रह्मा लोकपितामहः
पार्वत्या सहितो देवः शूलपाणिर्वृषध्वजः। महेंद्राद्याः सुरगणाः सगंधर्वास्स किंनराः
पिता मे च समायातो महाराजस्त्रिविष्टपात्। वृतश्चाप्सरसां संघैर्विद्याधरगणैस्तथा
तेषां समक्षं सर्वेषां जानकी शुद्धिमिच्छता। उक्ता सीता हव्यवाहं प्रविष्टा शुद्धिमागता
लंकाधिपैः सुरैर्दृष्टा गृहीता पितृशासनात्। अथाप्युक्तोथ राज्ञाहमयोध्यां गच्छ पुत्रकम्
न मे स्वर्गो बहुमतस्त्वया हीनस्य राघव। तारितोहं त्वया पुत्र प्राप्तोऽस्मीन्द्रसलोकताम्
लक्ष्मणं चाब्रवीद्राजा पुत्र पुण्यं त्वयार्जितम्। भ्रात्रासममथो दिव्यांल्लोकान्प्राप्स्यसि चोत्तमान्
आहूय जानकीं राजा वाक्यं चेदमुवाच ह। न च मन्युस्त्वया कार्यो भर्तारं प्रति सुव्रते
ख्यातिर्भविष्यत्येवाग्र्या भर्तुस्ते शुभलोचने। एवं वदति रामे तु पुष्पके च व्यवस्थिते
तत्र ये राक्षसवरास्ते गत्वाशु विभीषणं। प्राप्तो रामः ससुग्रीवश्चारा इत्थं तदाऽवदन्
विभीषणस्तु तच्छ्रुत्वा रामागमनमंतिके। चारांस्तान्पूजयामास सर्वकामधनादिभिः
अलंकृत्य पुरीं तां तु निष्क्रान्तः सचिवैः सह। दृष्ट्वा रामं विमानस्थं मेराविव दिवाकरं
अष्टांगप्रणिपातेन नत्वा राघवमब्रवीत्। अद्य मे सफलं जन्म प्राप्ताः सर्वे मनोरथाः
यद्दृष्टौ देवचरणौ जगद्वंद्यावनिंदितौ। कृतः श्लाघ्योस्म्यहं देव शक्रादीनां दिवौकसां
आत्मानमधिकं मन्ये त्रिदशेशात्पुरंदरात्। रावणस्य गृहे दीप्ते सर्वरत्नोपशोभिते
उपविष्टे तु काकुत्स्थे अर्घं दत्वा विभीषणः। उवाच प्रांजलिर्भूत्वा सुग्रीवं भरतं तथा
इहागतस्य रामस्य यद्दास्ये न तदस्ति मे। इयं च लंका रामेण रिपुं त्रैलोक्यकंटकम्
हत्वा तु पापकर्माणं दत्ता पूर्वं पुरी मम। इयं पुरी इमे दारा अमी पुत्रास्तथा ह्यहं
सर्वमेतन्मया दत्तं सर्वमक्षयमस्तु ते। ततः प्रकृतयः सर्वा लंकावासिजनाश्च ये
आजग्मू राघवं द्रष्टुं कौतूहलसमन्विताः। उक्तो विभीषणस्तैस्तु रामं दर्शय नः प्रभो
विभीषणेन कथिता राघवाय महात्मने। तेषामुपायनं सर्वं भरतो रामचोदितः
जग्राह वानरेन्द्रश्च धनरत्नौघसंचयं। एवं तत्र त्र्यहं रामो ह्यवसद्राक्षसालये
चतुर्थेहनि संप्राप्ते रामे चापि सभास्थिते। केकसी पुत्रमाहेदं रामं द्रक्ष्यामि पुत्रक
दृष्टे तस्मिन्महत्पुण्यं प्राप्यते मुनिसत्तमैः। विष्णुरेष महाभागश्चतुर्मूर्तिस्सनातनः
सीता लक्ष्मीर्महाभाग न बुद्धा साग्रजेन ते। पित्रा ते पूर्वमाख्यातं देवानां दिविसंगमे