अत्रैव निहतो वाली सुग्रीवार्थे परंतप। एषा सा दृश्यते नूनं किष्किंधा वालिपालिता
यस्यां वै स हि धर्मात्मा सुग्रीवो वानरेश्वरः। वानरैः सहितो वीर तावदास्ते समाः शतम्
वानरैस्सह सुग्रीवो यावदास्ते सभां गतः। तावत्तत्रागतौ वीरौ पुर्यां भरतराघवौ
दृष्ट्वा स भ्रातरौ प्राप्तौ प्रणिपत्याब्रवीदिदम्। क्व युवां प्रस्थितौ वीरौ कार्यं किं नु करिष्यथः
विनिवेश्यासने तौ च ददावर्घ्ये स्वयं तदा। एवं सभास्थिते तत्र धर्मिष्टे रघुनंदने
अंगदोथ हनूमांश्च नलो नीलश्च पाटलः। गजो गवाक्षो गवयः पनसश्च महायशाः
पुरोधसो मंत्रिणश्च दैवज्ञो दधिवक्रकः। नीलश्शतबलिर्मैन्दो द्विविदो गंधमादनः
वीरबाहुस्सुबाहुश्च वीरसेनो विनायकः। सूर्याभः कुमुदश्चैव सुषेणो हरियूथपः
ॠषभो विनतश्चैव गवाख्यो भीमविक्रमः। ॠक्षराजश्च धूम्रश्च सहसैन्यैरुपागताः
अंतःपुराणि सर्वाणि रुमा तारा तथैव च। अवरोधोंगदस्यापि तथान्याः परिचारिकाः
प्रहर्षमतुलं प्राप्य साधुसाध्विति चाब्रुवन्। वानराश्च महात्मानः सुग्रीवसहितास्तदा
वानर्यश्च महाभागास्ताराद्यास्तत्र राघवम्। अभिप्रेक्ष्याश्रुकंठ्यश्च प्रणिपत्येदमब्रुवन्
क्व सा देवी त्वया देव या विनिर्जित्यरावणम्। शुद्धिं कृत्वा हि ते वह्नौ पितुरग्र उमापतेः
त्वयानीता पुरीं राम न तां पश्यामि तेग्रतः। न विना त्वं तया देव शोभसे रघुनंदन
त्वया विनापि साध्वी सा क्व नु तिष्ठति जानकी। अन्यां भार्यां न ते वेद्मि भार्याहीनो न शोभसे
क्रौंचयुग्मं मिथो यद्वच्चक्रवाकयुगं यथा। एवं वदंतीं तां तारां ताराधिपसमाननाम्
प्राह प्रवचसां श्रेष्ठो रामो राजीवलोचनः। चारुदंष्ट्रे विशालाक्षि कालो हि दुरतिक्रमः1.38.
सर्वं कालकृतं विद्धि जगदेतच्चराचरम्। विसृज्यताः स्त्रियः सर्वाः सुग्रीवोभिमुखः स्थितः
सुग्रीव उवाच। भवंतौ येन कार्येण इहायातौ नरेश्वरौ। तच्चापि कथ्यतां शीघ्रं कृत्यकालो हि वर्तते
ब्रुवाणमेवं सुग्रीवं भरतो रामचोदितः। आचचक्षे च गमनं लंकायां राघवस्य तु। तौ चाब्रवीच्च सुग्रीवो भवद्भ्यां सहितः पुरीम्
गमिष्ये राक्षसं देव द्रष्टुं तत्र विभीषणम्। सुग्रीवेणैवमुक्ते तु गच्छस्वेत्याह राघवः
सुग्रीवो राघवौ तौ च पुष्पके तु स्थितास्त्रयः। तावत्प्राप्तं विमानं तु समुद्रस्योत्तरं तटम्
अब्रवीद्भरतं रामो ह्यत्र मे राक्षसेश्वरः। चतुर्भिः सचिवैः सार्धं जीवितार्थे विभीषणः
प्राप्तस्ततो लक्ष्मणेन लंकाराज्येभिषेचितः। अत्र चाहं समुद्रस्य परेपारे स्थितस्त्र्यहम्
दर्शनं दास्यते मेऽसौ ज्ञातिकार्यं भविष्यति। तावन्न दर्शनं मह्यं दत्तमेतेन शत्रुहन्
ततः कोपः सुमद्भूतश्चतुर्थेहनि राघव। धनुरायम्य वेगेन दिव्यमस्त्रं करे धृतम्
दृष्ट्वा मां शरणान्वेषी भीतो लक्ष्मणमाश्रितः। सुग्रीवेणानुनीतोऽस्मि क्षम्यतां राघव त्वया
ततो मयोत्क्षिप्तशरो मरुदेशे ह्यपाकृतः। ततस्समुद्रराजेन भृशं विनयशालिना
उक्तोहं सेतुबंधेन लंकां त्वं व्रज राघव। लंघयित्वा नरव्याघ्र वारिपूर्णं महोदधिम्
एष सेतुर्मया बद्धः समुद्रे वरुणालये। त्रिभिर्दिनैः समाप्तिं वै नीतो वानरसत्तमैः