पुष्पकं तु ततः प्राप्तं गांधारविषयो यतः। भरतस्य सुतौ दृष्ट्वा जगन्नीतिं निरीक्ष्य च
पूर्वां दिशं ततो गत्वा लक्ष्मणस्य सुतौ यतः। पुरेषु तेषु षड्रात्रमुषित्वा रघुनंदनौ
गतौ तेन विमानेन दक्षिणामभितो दिशम्। गंगायामुनसंभेदं प्रयागमृषिसेवितम्
अभिवाद्य भरद्वाजमत्रेराश्रममीयतुः। संभाष्य च मुनींस्तत्र जनस्थानमुपागतौ
राम उवाच। अत्र पूर्वं हृता सीता रावणेन दुरात्मना। हत्वा जटायुषं गृध्रं योसौ पितृसखो हि नौ
अत्रास्माकं महद्युद्धं कबंधेन कुबुद्धिना। हतेन तेन दग्धेन सीतास्ते रावणालये
ॠष्यमूके गिरिवरे सुग्रीवो नाम वानरः। स ते करिष्यते साह्यं पंपां व्रज सहानुजः
पंपासरः समासाद्य शबरीं गच्छ तापसीम्। इत्युक्तो दुःखितो वीर निराशो जीविते स्थितः
इयं सा नलिनी वीर यस्यां वै लक्ष्मणोवदत्। मा कृथाः पुरुषव्याघ्र शोकं शत्रुविनाशन
आज्ञाकारिणि भृत्ये च मयि प्राप्स्यसि मैथिलीम्। अत्र मे वार्षिका मासा गता वर्षशतोपमाः
अत्रैव निहतो वाली सुग्रीवार्थे परंतप। एषा सा दृश्यते नूनं किष्किंधा वालिपालिता
यस्यां वै स हि धर्मात्मा सुग्रीवो वानरेश्वरः। वानरैः सहितो वीर तावदास्ते समाः शतम्
वानरैस्सह सुग्रीवो यावदास्ते सभां गतः। तावत्तत्रागतौ वीरौ पुर्यां भरतराघवौ
दृष्ट्वा स भ्रातरौ प्राप्तौ प्रणिपत्याब्रवीदिदम्। क्व युवां प्रस्थितौ वीरौ कार्यं किं नु करिष्यथः
विनिवेश्यासने तौ च ददावर्घ्ये स्वयं तदा। एवं सभास्थिते तत्र धर्मिष्टे रघुनंदने
अंगदोथ हनूमांश्च नलो नीलश्च पाटलः। गजो गवाक्षो गवयः पनसश्च महायशाः
पुरोधसो मंत्रिणश्च दैवज्ञो दधिवक्रकः। नीलश्शतबलिर्मैन्दो द्विविदो गंधमादनः
वीरबाहुस्सुबाहुश्च वीरसेनो विनायकः। सूर्याभः कुमुदश्चैव सुषेणो हरियूथपः
ॠषभो विनतश्चैव गवाख्यो भीमविक्रमः। ॠक्षराजश्च धूम्रश्च सहसैन्यैरुपागताः
अंतःपुराणि सर्वाणि रुमा तारा तथैव च। अवरोधोंगदस्यापि तथान्याः परिचारिकाः
प्रहर्षमतुलं प्राप्य साधुसाध्विति चाब्रुवन्। वानराश्च महात्मानः सुग्रीवसहितास्तदा
वानर्यश्च महाभागास्ताराद्यास्तत्र राघवम्। अभिप्रेक्ष्याश्रुकंठ्यश्च प्रणिपत्येदमब्रुवन्
क्व सा देवी त्वया देव या विनिर्जित्यरावणम्। शुद्धिं कृत्वा हि ते वह्नौ पितुरग्र उमापतेः
त्वयानीता पुरीं राम न तां पश्यामि तेग्रतः। न विना त्वं तया देव शोभसे रघुनंदन
त्वया विनापि साध्वी सा क्व नु तिष्ठति जानकी। अन्यां भार्यां न ते वेद्मि भार्याहीनो न शोभसे
क्रौंचयुग्मं मिथो यद्वच्चक्रवाकयुगं यथा। एवं वदंतीं तां तारां ताराधिपसमाननाम्
प्राह प्रवचसां श्रेष्ठो रामो राजीवलोचनः। चारुदंष्ट्रे विशालाक्षि कालो हि दुरतिक्रमः1.38.
सर्वं कालकृतं विद्धि जगदेतच्चराचरम्। विसृज्यताः स्त्रियः सर्वाः सुग्रीवोभिमुखः स्थितः
सुग्रीव उवाच। भवंतौ येन कार्येण इहायातौ नरेश्वरौ। तच्चापि कथ्यतां शीघ्रं कृत्यकालो हि वर्तते
ब्रुवाणमेवं सुग्रीवं भरतो रामचोदितः। आचचक्षे च गमनं लंकायां राघवस्य तु। तौ चाब्रवीच्च सुग्रीवो भवद्भ्यां सहितः पुरीम्