आजगामाथ भरतो रामं दृष्ट्वाब्रवीदिदम्। किं त्वं चिंतयसे देव न रहस्यं वदस्व मे
देवकार्ये धरायां वा स्वकार्ये वा नरोत्तम। एवं ब्रुवंतं भरतं ध्यायमानमवस्थितम्
अब्रवीद्राघवो वाक्यं रहस्यं तु न वै तव। भवान्बहिश्चरः प्राणो लक्ष्मणश्च महायशाः
अवेद्यं भवतो नास्ति मम सत्यं विधारय। एषा मे महती चिंता कथं देवैर्विभीषणः
वर्तते यद्धितार्थं वै दशग्रीवो निपातितः। गमिष्ये तदहं लंकां यत्र चासौ विभीषणः
तं च दृष्ट्वा पुरीं तां तु कार्यमुक्त्वा च राक्षसम्। आलोक्य सर्ववसुधां सुग्रीवं वानरेश्वरम्
महाराजं च शत्रुघ्नं भातृपुत्रांश्च सर्वशः। एवं वदति काकुत्स्थे भरतः पुरतः स्थितः
उवाच राघवं वाक्यं गमिष्ये भवता सह। एवं कुरु महाबाहो सौमित्रिरिह तिष्ठतु
इत्युक्त्वा भरतं रामः सौमित्रं चाह वै पुरे। रक्षाकार्या त्वया वीर यावदागमनं हि नौ
एवं लक्ष्मणमादिश्य ध्यात्वा वै पुष्पकं नृप। आरुरोह स वै यानं कौसल्यानंदवर्धनः
पुष्पकं तु ततः प्राप्तं गांधारविषयो यतः। भरतस्य सुतौ दृष्ट्वा जगन्नीतिं निरीक्ष्य च
पूर्वां दिशं ततो गत्वा लक्ष्मणस्य सुतौ यतः। पुरेषु तेषु षड्रात्रमुषित्वा रघुनंदनौ
गतौ तेन विमानेन दक्षिणामभितो दिशम्। गंगायामुनसंभेदं प्रयागमृषिसेवितम्
अभिवाद्य भरद्वाजमत्रेराश्रममीयतुः। संभाष्य च मुनींस्तत्र जनस्थानमुपागतौ
राम उवाच। अत्र पूर्वं हृता सीता रावणेन दुरात्मना। हत्वा जटायुषं गृध्रं योसौ पितृसखो हि नौ
अत्रास्माकं महद्युद्धं कबंधेन कुबुद्धिना। हतेन तेन दग्धेन सीतास्ते रावणालये
ॠष्यमूके गिरिवरे सुग्रीवो नाम वानरः। स ते करिष्यते साह्यं पंपां व्रज सहानुजः
पंपासरः समासाद्य शबरीं गच्छ तापसीम्। इत्युक्तो दुःखितो वीर निराशो जीविते स्थितः
इयं सा नलिनी वीर यस्यां वै लक्ष्मणोवदत्। मा कृथाः पुरुषव्याघ्र शोकं शत्रुविनाशन
आज्ञाकारिणि भृत्ये च मयि प्राप्स्यसि मैथिलीम्। अत्र मे वार्षिका मासा गता वर्षशतोपमाः
अत्रैव निहतो वाली सुग्रीवार्थे परंतप। एषा सा दृश्यते नूनं किष्किंधा वालिपालिता
यस्यां वै स हि धर्मात्मा सुग्रीवो वानरेश्वरः। वानरैः सहितो वीर तावदास्ते समाः शतम्
वानरैस्सह सुग्रीवो यावदास्ते सभां गतः। तावत्तत्रागतौ वीरौ पुर्यां भरतराघवौ
दृष्ट्वा स भ्रातरौ प्राप्तौ प्रणिपत्याब्रवीदिदम्। क्व युवां प्रस्थितौ वीरौ कार्यं किं नु करिष्यथः
विनिवेश्यासने तौ च ददावर्घ्ये स्वयं तदा। एवं सभास्थिते तत्र धर्मिष्टे रघुनंदने
अंगदोथ हनूमांश्च नलो नीलश्च पाटलः। गजो गवाक्षो गवयः पनसश्च महायशाः
पुरोधसो मंत्रिणश्च दैवज्ञो दधिवक्रकः। नीलश्शतबलिर्मैन्दो द्विविदो गंधमादनः
वीरबाहुस्सुबाहुश्च वीरसेनो विनायकः। सूर्याभः कुमुदश्चैव सुषेणो हरियूथपः
ॠषभो विनतश्चैव गवाख्यो भीमविक्रमः। ॠक्षराजश्च धूम्रश्च सहसैन्यैरुपागताः
अंतःपुराणि सर्वाणि रुमा तारा तथैव च। अवरोधोंगदस्यापि तथान्याः परिचारिकाः