पुष्करस्थेन वै पूर्वं ब्रह्मणा लोककारिणा। शतत्रयेण यज्ञानामिष्टं षष्ट्याधिकेन च
इष्ट्वा हि राजसूयेन सोमो धर्मेण धर्मवित्। प्राप्तः सर्वेषु लोकेषु कीर्तिस्थानमनुत्तमम्
इष्ट्वा हि राजसूयेन मित्रः शत्रुनिबर्हणः। मुहूर्तेन सुशुद्धेन वरुणत्वमुपागतः
तस्माद्भवंतौ संचिंत्य कार्येस्मिन्वदतं हि तत्। भरत उवाच। त्वं धर्मः परमः साधो त्वयि सर्वा वसुंधरा
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम। महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः
निरीक्षंते महात्मानो लोकनाथ तथा वयं। प्रजाश्च पितृवद्राजन्पश्यंति त्वां महामते
पृथिव्यां गतिभूतोसि प्राणिनामिह राघव। सत्वमेवंविधं यज्ञं नाहर्त्तासि परंतप
पृथिव्यां सर्वभूतानां विनाशो दृश्यते यतः। श्रूयते राजशार्दूल सोमस्य मनुजेश्वर
ज्योतिषां सुमहद्युद्धं संग्रामे तारकामये। तारा बृहस्पतेर्भार्या हृता सोमेनकामतः
तत्र युद्धं महद्वृत्तं देवदानवनाशनम्। वरुणस्य क्रतौ घोरे संग्रामे मत्स्यकच्छपाः
निवृत्ते राजशार्दूल सर्वे नष्टा जलेचराः। हरिश्चंद्रस्य यज्ञांते राजसूयस्य राघव
आडीबकंमहद्युद्धं सर्वलोकविनाशनम्। पृथिव्यां यानि सत्वानि तिर्यग्योनिगतानि वै
दिव्यानां पार्थिवानां च राजसूये क्षयः श्रुतः। स त्वं पुरुषशार्दूल बुद्ध्या संचिंत्य पार्थिव
प्राणिनां च हितं सौम्यं पूर्णधर्मं समाचर। भरतस्य वचः श्रुत्वा राघवः प्राह सादरम्
प्रीतोस्मि तव धर्मज्ञ वाक्येनानेन शत्रुहन्। निवर्तिता राजसूयान्मतिर्मे धर्मवत्सल
पूर्णं धर्मं करिष्यामि कान्यकुब्जे च वामनम्। स्थापयिष्याम्यहं वीर सा मे ख्यातिर्दिवं गता
भविष्यति न संदेहो यथा गंगा भगीरथात्
भीष्म उवाच। कथं रामेण विप्रर्षे कान्यकुब्जे तु वामनः। स्थापितः क्व च लब्धोसौ विस्तरान्मम कीर्तय
तथा हि मधुरा चैषा या वाणी रामकीर्तने। कीर्तिता भगवन्मह्यं हृता कर्णसुखावह
अनुरागेण तं लोकाः स्नेहात्पश्यंति राघवम्। धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः
प्रशास्ति पृथिवीं सर्वां धर्मेण सुसमाहितः। तस्मिन्शासति वै राज्यं सर्वकामफलाद्रुमाः
रसवंतः प्रभूताश्च वासांसि विविधानि च। अकृष्टपच्या पृथिवी निःसपत्ना महात्मनः
देवकार्यं कृतं तेन रावणो लोककंटकः। सपुत्रोमात्यसहितो लीलयैव निपातितः
तस्यबुद्धिस्समुत्पन्ना पूर्णे धर्मे द्विजोत्तम। तस्याहं चरितं सर्वं श्रोतुमिच्छामि वै मुने
पुलस्त्य उवाच। कस्यचित्त्वथ कालस्य रामो धर्मपथे स्थितः। यच्चकार महाबाहो शृणुष्वैकमना नृप
सस्मार राक्षसेंद्रं तं कथं राजा विभीषणः। लंकायां संस्थितो राज्यं करिष्यति च राक्षसः
गीर्वाणेषु प्रातिकूल्यं विनाशस्य तु लक्षणम्। मया तस्य तु तद्दत्तं राज्यं चंद्रार्ककालिकम्
तस्याविनाशतः कीर्तिः स्थिरा मे शाश्वती भवेत्। रावणेन तपस्तप्तं विनाशायात्मनस्त्विह
विध्वस्तः स च पापिष्ठो देवकार्ये मयाधुना। तदिदानीं मयान्वेष्यः स्वयं गत्वा विभीषणः
संदेष्टव्यं हितं तस्य येन तिष्ठेत्स शाश्वतम्। एवं चिंतयतस्तस्य रामस्यामिततेजसः