अभिवादयितुं चक्रे सोऽगस्त्यमृषिसत्तमम्। अभिवाद्य मुनिश्रेष्ठंस्तांश्च सर्वांस्तपोधिकान्
अथारोहत्तदाव्यग्रः पुष्पकं हेमभूषितम्। तं प्रयांतं मुनिगणा आशीर्वादैस्समंततः
अपूपुजन्नरेंद्रं तं सहस्राक्षमिवामराः। ततोऽर्धदिवसे प्राप्ते रामः सर्वार्थकोविदः
अयोध्यां प्राप्य काकुत्स्थः पद्भ्यां कक्षामवातरत्। ततो विसृज्य रुचिरं पुष्पकं कामवाहितं
कक्षांतराद्विनिष्क्रम्य द्वास्थान्राजाऽब्रवीदिदं। लक्ष्मणं भरतं चैव गच्छध्वं लघुविक्रमाः
ममागमनमाख्याय समानयत मा चिरम्। श्रुत्वाथ भाषितं द्वास्था रामस्याक्लिष्टकर्मणः1.37.
गत्वा कुमारावाहूय राघवाय न्यवदेयन्। द्वास्थैः कुमारावानीतौ राघवस्य निदेशतः
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ। समालिंग्य तु रामस्तौ वाक्यं चेदमुवाच ह
कृतं मया यथातथ्यं द्विजकार्यमनुत्तमं। धर्महेतुमतो भूयः कर्तुमिच्छामि राघवौ
भवद्भ्यामात्मभूताभ्यां राजसूयं क्रतूत्तमं। सहितो यष्टुमिच्छामि यत्र धर्मश्च शाश्वतः
पुष्करस्थेन वै पूर्वं ब्रह्मणा लोककारिणा। शतत्रयेण यज्ञानामिष्टं षष्ट्याधिकेन च
इष्ट्वा हि राजसूयेन सोमो धर्मेण धर्मवित्। प्राप्तः सर्वेषु लोकेषु कीर्तिस्थानमनुत्तमम्
इष्ट्वा हि राजसूयेन मित्रः शत्रुनिबर्हणः। मुहूर्तेन सुशुद्धेन वरुणत्वमुपागतः
तस्माद्भवंतौ संचिंत्य कार्येस्मिन्वदतं हि तत्। भरत उवाच। त्वं धर्मः परमः साधो त्वयि सर्वा वसुंधरा
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम। महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः
निरीक्षंते महात्मानो लोकनाथ तथा वयं। प्रजाश्च पितृवद्राजन्पश्यंति त्वां महामते
पृथिव्यां गतिभूतोसि प्राणिनामिह राघव। सत्वमेवंविधं यज्ञं नाहर्त्तासि परंतप
पृथिव्यां सर्वभूतानां विनाशो दृश्यते यतः। श्रूयते राजशार्दूल सोमस्य मनुजेश्वर
ज्योतिषां सुमहद्युद्धं संग्रामे तारकामये। तारा बृहस्पतेर्भार्या हृता सोमेनकामतः
तत्र युद्धं महद्वृत्तं देवदानवनाशनम्। वरुणस्य क्रतौ घोरे संग्रामे मत्स्यकच्छपाः
निवृत्ते राजशार्दूल सर्वे नष्टा जलेचराः। हरिश्चंद्रस्य यज्ञांते राजसूयस्य राघव
आडीबकंमहद्युद्धं सर्वलोकविनाशनम्। पृथिव्यां यानि सत्वानि तिर्यग्योनिगतानि वै
दिव्यानां पार्थिवानां च राजसूये क्षयः श्रुतः। स त्वं पुरुषशार्दूल बुद्ध्या संचिंत्य पार्थिव
प्राणिनां च हितं सौम्यं पूर्णधर्मं समाचर। भरतस्य वचः श्रुत्वा राघवः प्राह सादरम्
प्रीतोस्मि तव धर्मज्ञ वाक्येनानेन शत्रुहन्। निवर्तिता राजसूयान्मतिर्मे धर्मवत्सल
पूर्णं धर्मं करिष्यामि कान्यकुब्जे च वामनम्। स्थापयिष्याम्यहं वीर सा मे ख्यातिर्दिवं गता
भविष्यति न संदेहो यथा गंगा भगीरथात्
भीष्म उवाच। कथं रामेण विप्रर्षे कान्यकुब्जे तु वामनः। स्थापितः क्व च लब्धोसौ विस्तरान्मम कीर्तय
तथा हि मधुरा चैषा या वाणी रामकीर्तने। कीर्तिता भगवन्मह्यं हृता कर्णसुखावह
अनुरागेण तं लोकाः स्नेहात्पश्यंति राघवम्। धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः