अथ क्रुद्धेन मुनिना शापो दत्तः सुदारुणः। गृध्रत्वं गच्छ वै मूढ राजा मुनिमथाब्रवीत्
कृपां कुरु महाभाग शापोद्धारो भविष्यति। दयालुस्तद्वचः श्रुत्वा पुनराह नराधिप
उत्पत्स्यते रघुकुले रामो नाम महायशाः। इक्ष्वाकूणां महाभागो राजा राजीवलोचनः
तेन दृष्टो विपापस्त्वं भविता नरपुंगव। दृष्टो रामेण तच्छ्रुत्वा बभूव पृथिवीपतिः
गृध्रत्वं त्यज्य वै शीघ्रं दिव्यगंधानुलेपनः। पुरुषो दिव्यरूपोऽसौ बभाषे तं नराधिपं
साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो। विमुक्तो नरकाद्घोरादपापस्तु त्वया कृतः
विसर्जितं मया गार्ध्यं नररूपी महीपतिः। उलूकं प्राह धर्मज्ञ स्वगृहं विश कौशिक
अहं संध्यामुपासित्वा गमिष्ये यत्र वै मुनिः। अथोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमां
आश्रमं प्राविशद्रामः कुंभयोनेर्महात्मनः। तस्यागस्त्यो बहुगुणं फलमूलं च सादरं
रसवंति च शाकानि भोजनार्थमुपाहरत्। सभुक्तवान्नरव्याघ्रस्तदन्नममृतोपमम्
प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत्। प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदम
ॠषिं समभिचक्राम गमनाय रघूत्तमः। अभिवाद्याब्रवीद्रामो महर्षिं कुंभसंभवम्
आपृच्छे साधये ब्रह्मन्ननुज्ञातुं त्वमर्हसि। धन्योस्म्यनुगृहीतोस्मि दर्शनेन महामुने
दिष्ट्या चाहं भविष्यामि पावनात्मा महात्मनः। एवं ब्रुवति काकुत्स्थे वाक्यमद्भुतदर्शनं
उवाच परमप्रीतो बाष्पनेत्रस्तपोधनः। अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरं
पावनं सर्वभूतानां त्वयोक्तं रघुनंदन। मुहूर्तमपि राम त्वां मैत्रेणेक्षंति ये नराः
पावितास्सर्वसूक्तैस्ते कथ्यंते त्रिदिवौकसः। ये च त्वां घोरचक्षुर्भिरीक्षंते प्राणिनो भुवि
ते हता ब्रह्मदंडेन सद्यो नरकगामिनः। ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनां
कथयंतश्च लोकास्त्वां सिद्धिमेष्यंति राघव। गच्छस्वानातुरोऽविघ्नं पंथानमकुतोभयः
प्रशाधि राज्यं धर्मेण गतिस्तु जगतां भवान्। एवमुक्तस्तु मुनिना प्राञ्जलि प्रग्रहो नृपः
अभिवादयितुं चक्रे सोऽगस्त्यमृषिसत्तमम्। अभिवाद्य मुनिश्रेष्ठंस्तांश्च सर्वांस्तपोधिकान्
अथारोहत्तदाव्यग्रः पुष्पकं हेमभूषितम्। तं प्रयांतं मुनिगणा आशीर्वादैस्समंततः
अपूपुजन्नरेंद्रं तं सहस्राक्षमिवामराः। ततोऽर्धदिवसे प्राप्ते रामः सर्वार्थकोविदः
अयोध्यां प्राप्य काकुत्स्थः पद्भ्यां कक्षामवातरत्। ततो विसृज्य रुचिरं पुष्पकं कामवाहितं
कक्षांतराद्विनिष्क्रम्य द्वास्थान्राजाऽब्रवीदिदं। लक्ष्मणं भरतं चैव गच्छध्वं लघुविक्रमाः
ममागमनमाख्याय समानयत मा चिरम्। श्रुत्वाथ भाषितं द्वास्था रामस्याक्लिष्टकर्मणः1.37.
गत्वा कुमारावाहूय राघवाय न्यवदेयन्। द्वास्थैः कुमारावानीतौ राघवस्य निदेशतः
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ। समालिंग्य तु रामस्तौ वाक्यं चेदमुवाच ह
कृतं मया यथातथ्यं द्विजकार्यमनुत्तमं। धर्महेतुमतो भूयः कर्तुमिच्छामि राघवौ
भवद्भ्यामात्मभूताभ्यां राजसूयं क्रतूत्तमं। सहितो यष्टुमिच्छामि यत्र धर्मश्च शाश्वतः