तस्य गात्रसमुत्पन्नः कैटभो मधुना सह। दानवौ तौ महावीर्यौ घोरौ लब्धवरौ तदा
दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टावुभौ नृप। वेगेन महता भोक्तुं स्वयंभुवमधावतां
दृष्ट्वा सत्वानि सर्वाणि निस्सरन्ति पृथक्पृथक्। ब्रह्मणा संस्तुतो विष्णुर्हत्वा तौ मधुकैटभौ
पृथिवीं वर्धयामास स्थित्यर्थं मेदसा तयोः। मेदोगंधा तु धरणी मेदिनीत्यभिधां गता
तस्माद्गृध्रस्त्वसत्यो वै पापकर्मापरालयम्। स्वीयं करोति पापात्मा दण्डनीयो न संशयः
ततोऽशरीरिणीवाणी अंतरिक्षात्प्रभाषते। मा वधी राम गृध्रं त्वं पूर्वंदग्धं तपोबलात्
पुरा गौतम दग्धोऽयं प्रजानाथो जनेश्वर। ब्रह्मदत्तस्तु नामैष शूरः सत्यव्रतः शुचिः
गृहमागत्य विप्रर्षेर्भोजनं प्रत्ययाचत। साग्रं वर्षशतं चैव भुक्तवान्नृपसत्तम
ब्रह्मदत्तस्य वै तस्य पाद्यमर्घ्यं स्वयं ततः। आत्मनैवाकरोत्सम्यग्भोजनार्थं महाद्युते
समाविश्य गृहं तस्य आहारे तु महात्मनः। नारीं पूर्णस्तनीं दृष्ट्वा हस्तेनाथ परामृशत्
अथ क्रुद्धेन मुनिना शापो दत्तः सुदारुणः। गृध्रत्वं गच्छ वै मूढ राजा मुनिमथाब्रवीत्
कृपां कुरु महाभाग शापोद्धारो भविष्यति। दयालुस्तद्वचः श्रुत्वा पुनराह नराधिप
उत्पत्स्यते रघुकुले रामो नाम महायशाः। इक्ष्वाकूणां महाभागो राजा राजीवलोचनः
तेन दृष्टो विपापस्त्वं भविता नरपुंगव। दृष्टो रामेण तच्छ्रुत्वा बभूव पृथिवीपतिः
गृध्रत्वं त्यज्य वै शीघ्रं दिव्यगंधानुलेपनः। पुरुषो दिव्यरूपोऽसौ बभाषे तं नराधिपं
साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो। विमुक्तो नरकाद्घोरादपापस्तु त्वया कृतः
विसर्जितं मया गार्ध्यं नररूपी महीपतिः। उलूकं प्राह धर्मज्ञ स्वगृहं विश कौशिक
अहं संध्यामुपासित्वा गमिष्ये यत्र वै मुनिः। अथोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमां
आश्रमं प्राविशद्रामः कुंभयोनेर्महात्मनः। तस्यागस्त्यो बहुगुणं फलमूलं च सादरं
रसवंति च शाकानि भोजनार्थमुपाहरत्। सभुक्तवान्नरव्याघ्रस्तदन्नममृतोपमम्
प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत्। प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदम
ॠषिं समभिचक्राम गमनाय रघूत्तमः। अभिवाद्याब्रवीद्रामो महर्षिं कुंभसंभवम्
आपृच्छे साधये ब्रह्मन्ननुज्ञातुं त्वमर्हसि। धन्योस्म्यनुगृहीतोस्मि दर्शनेन महामुने
दिष्ट्या चाहं भविष्यामि पावनात्मा महात्मनः। एवं ब्रुवति काकुत्स्थे वाक्यमद्भुतदर्शनं
उवाच परमप्रीतो बाष्पनेत्रस्तपोधनः। अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरं
पावनं सर्वभूतानां त्वयोक्तं रघुनंदन। मुहूर्तमपि राम त्वां मैत्रेणेक्षंति ये नराः
पावितास्सर्वसूक्तैस्ते कथ्यंते त्रिदिवौकसः। ये च त्वां घोरचक्षुर्भिरीक्षंते प्राणिनो भुवि
ते हता ब्रह्मदंडेन सद्यो नरकगामिनः। ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनां
कथयंतश्च लोकास्त्वां सिद्धिमेष्यंति राघव। गच्छस्वानातुरोऽविघ्नं पंथानमकुतोभयः
प्रशाधि राज्यं धर्मेण गतिस्तु जगतां भवान्। एवमुक्तस्तु मुनिना प्राञ्जलि प्रग्रहो नृपः