उलूकः शोभते राजन्न तु गृध्रो महामते। त्वं प्रमाणं महाराज राजा हि परमा गतिः
राजमूलाः प्रजाः सर्वा राजा धर्मः सनातनः। शास्ता राजा नृणां येषां न ते गच्छंति दुर्गतिम्
वैवस्वतेन मुक्ताश्च भवंति पुरुषोत्तमाः। सचिवानां वचः श्रुत्वा रामो वचनमब्रवीत्
श्रूयतामभिधास्यामि पुराणं यदुदाहृतं। द्यौः सचंद्रार्कनक्षत्रा सपर्वतमहीद्रुमम्
सलिलार्णवसंमग्नं त्रैलोक्यं सचराचरं। एकमेव तदा ह्यासीत्सर्वमेकमिवांबरं
पुनर्भूः सह लक्ष्म्या च विष्णोर्जठरमाविशत्। तां निगृह्य महातेजाः प्रविश्य सलिलार्णवं
सुष्वाप हि कृतात्मा स बहुवर्षशतान्यपि। विष्णौ सुप्ते ततो ब्रह्मा विवेश जठरं ततः
बहुस्रोतं च तं ज्ञात्वा महायोगी समाविशत्। नाभ्यां विष्णोः समुद्भूतं पद्मं हेमविभूषितं
स तु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुः। सिसृक्षुः पृथिवीं वायुं पर्वतांश्च महीरुहान्
तदंतराः प्रजाः सर्वा मानुषांश्च सरीसृपान्। जरायुजाण्डजान्सर्वान्ससर्ज स महातपाः
तस्य गात्रसमुत्पन्नः कैटभो मधुना सह। दानवौ तौ महावीर्यौ घोरौ लब्धवरौ तदा
दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टावुभौ नृप। वेगेन महता भोक्तुं स्वयंभुवमधावतां
दृष्ट्वा सत्वानि सर्वाणि निस्सरन्ति पृथक्पृथक्। ब्रह्मणा संस्तुतो विष्णुर्हत्वा तौ मधुकैटभौ
पृथिवीं वर्धयामास स्थित्यर्थं मेदसा तयोः। मेदोगंधा तु धरणी मेदिनीत्यभिधां गता
तस्माद्गृध्रस्त्वसत्यो वै पापकर्मापरालयम्। स्वीयं करोति पापात्मा दण्डनीयो न संशयः
ततोऽशरीरिणीवाणी अंतरिक्षात्प्रभाषते। मा वधी राम गृध्रं त्वं पूर्वंदग्धं तपोबलात्
पुरा गौतम दग्धोऽयं प्रजानाथो जनेश्वर। ब्रह्मदत्तस्तु नामैष शूरः सत्यव्रतः शुचिः
गृहमागत्य विप्रर्षेर्भोजनं प्रत्ययाचत। साग्रं वर्षशतं चैव भुक्तवान्नृपसत्तम
ब्रह्मदत्तस्य वै तस्य पाद्यमर्घ्यं स्वयं ततः। आत्मनैवाकरोत्सम्यग्भोजनार्थं महाद्युते
समाविश्य गृहं तस्य आहारे तु महात्मनः। नारीं पूर्णस्तनीं दृष्ट्वा हस्तेनाथ परामृशत्
अथ क्रुद्धेन मुनिना शापो दत्तः सुदारुणः। गृध्रत्वं गच्छ वै मूढ राजा मुनिमथाब्रवीत्
कृपां कुरु महाभाग शापोद्धारो भविष्यति। दयालुस्तद्वचः श्रुत्वा पुनराह नराधिप
उत्पत्स्यते रघुकुले रामो नाम महायशाः। इक्ष्वाकूणां महाभागो राजा राजीवलोचनः
तेन दृष्टो विपापस्त्वं भविता नरपुंगव। दृष्टो रामेण तच्छ्रुत्वा बभूव पृथिवीपतिः
गृध्रत्वं त्यज्य वै शीघ्रं दिव्यगंधानुलेपनः। पुरुषो दिव्यरूपोऽसौ बभाषे तं नराधिपं
साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो। विमुक्तो नरकाद्घोरादपापस्तु त्वया कृतः
विसर्जितं मया गार्ध्यं नररूपी महीपतिः। उलूकं प्राह धर्मज्ञ स्वगृहं विश कौशिक
अहं संध्यामुपासित्वा गमिष्ये यत्र वै मुनिः। अथोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमां
आश्रमं प्राविशद्रामः कुंभयोनेर्महात्मनः। तस्यागस्त्यो बहुगुणं फलमूलं च सादरं
रसवंति च शाकानि भोजनार्थमुपाहरत्। सभुक्तवान्नरव्याघ्रस्तदन्नममृतोपमम्