शृणु त्वं मम देवेश विज्ञाप्यं नरपुंगव। ममालयं पूर्वकृतं बाहुवीर्येण वै प्रभो
उलूको हरते राजंस्त्वत्समीपे विशेषतः। ईदृशोयं दुराचारस्त्वदाज्ञा लंघको नृप
प्राणांतिकेन दंडेन राम शासितुमर्हसि। एवमुक्ते तु गृध्रेण उलूको वाक्यमब्रवीत्
शृणु देव मम ज्ञाप्यमेकचित्तो नराधिप। सोमाच्छक्राच्च सूर्याच्च धनदाच्च यमात्तथा
जायते वै नृपो राम किंचिद्भवति मानुषः। त्वं तु सर्वमयो देवो नारायणपरायणः
प्रोच्यते सोमता राजन्सम्यक्कार्ये विचारिते। सम्यग्रक्षसि तापेभ्यस्तमोघ्नो हि यतो भवान्
दोषे दंडात्प्रजानां त्वं यतः पापभयापहः। दाता प्रहर्ता गोप्ता च तेनेंद्र इव नो भवान्
अधृष्यः सर्वभूतेषु तेजसा चानलो मतः। अभीक्ष्णं तपसे पापांस्तेन त्वं राम भास्करः
साक्षाद्वित्तेशतुल्यस्त्वमथवा धनदाधिकः। चित्तायत्ता तु पत्नीश्रीर्नित्यं ते राजसत्तम
धनदस्य तु कोशेन धनदस्तेन वैभवान्। समः सर्वेषु भूतेषु स्थावरेषु चरेषु च
शत्रौ मित्रे च ते दृष्टिः समंताद्याति राघव। धर्मेण शासनं नित्यं व्यवहारविधिक्रमैः
यस्य रुष्यसि वै राम मृत्युस्तस्याभिधीयते। गीयसे तेन वै राजन्यम इत्यभिविश्रुतः
यश्चासौ मानुषो भावो भवतो नृपसत्तम। आनृशंस्यपरो राजा सर्वेषु कृपयान्वितः
दुर्बलस्य त्वनाथस्य राजा भवति वै बलम्। अचक्षुषो भवेच्चक्षुरमतेषु मतिर्भवेत्
अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिक। भवता तत्र मंतव्यं यथैते किल पक्षिणः
योस्मन्नाथः स पक्षींद्रो भवतो विनियोज्यकः। अस्वाम्यं देव नास्माकं सन्निधौ भवतः प्रभो
भवतैव कृतं पूर्वं भूतग्रामं चतुर्विधम्। ममालयप्रविष्टस्तु गृध्रो मां बाधते नृप
भवान्देवमनुष्येषु शास्ता वै नरपुंगव। एतच्छ्रुत्वा तु वै रामः सचिवानाह्वयत्स्वयम्
विष्टिर्जयंतो विजयः सिद्धार्थो राष्ट्रवर्धनः। अशोको धर्मपालश्च सुमंत्रश्च महाबलः
एते रामस्य सचिवा राज्ञो दशरथस्य च। नीतियुक्ता महात्मानः सर्वशास्त्रविशारदाः
सुशांताश्च कुलीनाश्च नये मंत्रे च कोविदाः। तानाहूय स धर्मात्मा पुष्पकादवरुह्य च
गृध्रोलूकौ विवदंतौ पृच्छति स्म रघूत्तमः। कति वर्षाणि भो गृध्र तवेदं निलयं कृतं
एतन्मे कौतुकं ब्रूहि यदि जानासि तत्त्वतः। एतच्छ्रुत्वा वचो गृध्रो बभाषे राघवं स्थितं
इयं वसुमती राम मानुषैर्बहुबाहुभिः। उच्छ्रितैराचिता सर्वा तदाप्रभृति मद्गृहं
उलूकस्त्वब्रवीद्रामं पादपैरुपशोभिता। यदैव पृथिवी राजंस्तदाप्रभृति मे गृहं
एतच्छ्रुत्वा तु रामो वै सभासद उवाचह। न सा सभा यत्र न संति वृद्धा वृद्धा न ते ये न वदंति धर्मं1.37.
नासौ धर्मो यत्र न चास्ति सत्यं न तत्सत्यं यच्छलमभ्युपैति। ये तु सभ्याः सभां गत्वा तूष्णीं ध्यायंत आसते
यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनः। न वक्ति च श्रुतं यश्च कामात्क्रोधात्तथा भयात्
सहस्रं वारुणाः पाशाः प्रतिमुंचंति तं नरं। तेषां संवत्सरे पूर्णे पाश एकः प्रमुच्यते
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमंजसा। एतच्छ्रुत्वा तु सचिवा राममेवाब्रुवंस्तदा