तस्य रोषः समभवत्क्षुधार्तस्य महात्मनः। निर्दहन्निव लोकांस्त्रींस्तान्शिष्यान्समुवाच ह
पश्यध्वं विपरीतस्य दंडस्यादीर्घदर्शिनः। विपत्तिं घोरसंकाशां दीप्तामग्निशिखामिव
यन्नाशं दुर्गतिं प्राप्तस्सानुगश्च न संशयः। यस्तु दीप्तहुताशस्य अर्चिः संस्पृष्टवानिह
यस्मात्स कृतवान्पापमीदृशं घोरसंमितम्। तस्मात्प्राप्स्यति दुर्मेधाः पांसुवर्षमनुत्तमम्
कुराजा देशसंयुक्तः सभृत्यबलवाहनः। पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः
समंताद्योजनशतं विषयं चास्य दुर्मतेः। धुनोतु पांसुवर्षेण महता पाकशासनः1.37.
सर्वसत्वानि यानीह जंगमस्थावराणि वै। सर्वेषां पांसुवर्षेण क्षयः क्षिप्रं भविष्यति
दंडस्य विषयो यावत्तावत्सवनमाश्रमम्। पांसुवर्षमिवाकस्मात्सप्तरात्रं भविष्यति
इत्युक्त्वा क्रोधसंतप्तस्तमाश्रमनिवासिनम्। जनं जनपदस्यांते स्थीयतामित्युवाच ह
उक्तमात्रे उशनसा आश्रमावसथो जनः। क्षिप्रं तु विषयात्तस्मात्स्थानं चक्रे च बाह्यतः
तं तथोक्त्वा मुनिजनमरजामिदमब्रवीत्। आश्रमे त्वं सुदुर्मेधे वस चेह समाहिता
इदं योजनपर्यंतमाश्रमं रुचिरप्रभम्। अरजे विरजास्तिष्ठ कालमत्र समाश्शतम्
श्रुत्वा नियोगं विप्रर्षेररजा भार्गवी तदा। तथेति पितरं प्राह भार्गवं भृशदुःखिता
इत्युक्त्वा भार्गवो वासं तस्मादन्यमुपाक्रमत्। सप्ताहे भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना
तस्माद्दंडस्य विषयो विंध्यशैलस्य मानुष। शप्तो ह्युशनसा राम तदाभूद्धर्षणे कृते
ततःप्रभृति काकुत्स्थ दंडकारण्यमुच्यते। एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव
संध्यामुपासितुं वीर समयो ह्यतिवर्तते। एते महर्षयो राम पूर्णकुंभाः समंततः
कृतोदका नरव्याघ्र पूजयंति दिवाकरम्। सर्वैरॄषिभिरभ्यस्तैः स्तोत्रैर्ब्रह्मादिभिः कृतैः
रविरस्तंगतो राम गत्वोदकमुपस्पृश। ॠषेर्वचनमादाय रामः संध्यामुपासितुम्
उपचक्राम तत्पुण्यं ससरोरघुनंदनः। अथ तस्मिन्वनोद्देशे रम्ये पादपशोभिते
नदपुण्ये गिरिवरे कोकिलाशतमंडिते। नानापक्षिरवोद्याने नानामृगसमाकुले
सिंहव्याघ्रसमाकीर्णे नानाद्विजसमावृते। गृध्रोलूकौ प्रवसितौ बहून्वर्षगणानपि
अथोलूकस्य भवनं गृध्रः पापविनिश्चयः। ममेदमिति कृत्वाऽसौ कलहं तेन चाकरोत्
राजा सर्वस्य लोकस्य रामो राजीवलोचनः। तं प्रपद्यावहै शीघ्रं कस्यैतद्भवनं भवेत्
गृध्रोलूकौ प्रपद्येतां जातकोपावमर्षिणौ। रामं प्रपद्यतौ शीघ्रं कलिव्याकुलचेतसौ
तौ परस्परविद्वेषौ स्पृशतश्चरणौ तथा। अथ दृष्ट्वा राघवेंद्रं गृध्रो वचनमब्रवीत्
सुराणामसुराणां च त्वं प्रधानो मतो मम। बृहस्पतेश्च शुक्राच्च त्वं विशिष्टो महामतिः
परावरज्ञो भूतानां मर्त्ये शक्र इवापरः। दुर्निरीक्षो यथा सूर्यो हिमवानिव गौरवे
सागरश्चासि गांभीर्ये लोकपालो यमो ह्यसि। क्षांत्या धरण्या तुल्योसि शीघ्रत्वे ह्यनिलोपमः
गुरुस्त्वं सर्वसंपन्नो विष्णुरूपोसि राघव। अमर्षी दुर्जयो जेता सर्वास्त्रविधिपारगः