कथांते तु ततस्तेषां ऋषीणां भावितात्मनाम् । प्रणम्य शिरसा भीष्मं पप्रच्छेदं युधिष्ठिरः
युधिष्ठिर उवाच- के देशास्तु महापुण्याः के शैलाः केऽपिचाश्रमाः । सेव्या धर्मार्थिभिर्नित्यं तन्मे ब्रूहि पितामह
भीष्म उवाच- अत्रैवोदाहरंतीममितिहासं नरोत्तम । शिलोंछवृत्तेः संवादं सिद्धस्य च युधिष्ठिर
कश्चित्सिद्धः परिक्रम्य समस्तां पृथिवीमिमाम् । उंछवृत्तेः शिबेराजन्गृहं प्राप्तो महात्मनः
आत्मविद्यासु तत्वज्ञः सर्वदा स जितेंद्रियः । रागद्वेषपरित्यक्तः कुशली ज्ञानकर्मसु
वैष्णवेषु सदा श्रेष्ठो विष्णुधर्मपरायणः । अनिंदको वैष्णवानां सदा धर्मपरायणः
योगाभ्यासरतो नित्यं शंखचक्रविधारकः । त्रिकालपूजा तत्वज्ञः श्रीकंठेऽनुरतः सदा
वेदविद्यासु विदुषो धर्माधर्मविचारकः । वेदपाठव्रतो नित्यं नित्यं चातिथिपूजकः
सतीर्थमतियुक्तस्तु शिलोंछेषु स्थितः सदा । चतुर्वेदेषु यद्ध्यानं गीतं यद्यत्स्वयंभुवा
तत्सर्वं स च जानाति द्विजो विष्णुस्वरूपधृक् । नानाधर्मार्थविशदो ह्यव्ययेष्टमतिः सदा
एकस्मिन्नेव काले तु गतोऽसौ वै शिबेर्गृहम् । तं दृष्ट्वा विधिवच्चैव कृत्वातिथ्यं महामनाः
शिबिः संपृच्छयामास देशानां हितकारणम्
उंछवृत्तिरुवाच- के देशाः के जनपदाः के शैलाः केऽपि चाश्रमाः । पुण्या द्विजवर प्रीत्या मह्यं निर्देष्टुमर्हसि
सिद्ध उवाच- ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्रमाः । पुण्यास्त्रिपथगा येषां मध्ये नित्यं सरिद्वरा
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः । गतिं तां न लभेज्जंतुर्गंगां संसेव्य यां लभेत्
स्नातानां तत्र पयसि गांगेये नियतात्मनाम् । तुष्टिर्भवति या पुंसां न सा क्रतुशतैरपि
अपहृत्य तमस्तीव्रं यथा भात्युदये रविः । तथापहृत्य पाप्मानं भाति गंगाजलाप्लुतः
अग्निं प्राप्य यथा विप्र तूलराशिर्विनश्यति । तथा गंगावगाहश्च सर्वं पापं व्यपोहति
यस्तु सूर्यांशुसंतप्तं गांगेयं सलिलं पिबेत् । स गोनीहारनिर्मुक्तः पावकाद्धि विशिष्यते
चांद्रायणसहस्रं तु पादेनैकेन यः पुमान् । संप्लुतश्चापि गंगायां यो नरः स विशिष्यते
लंबेदधःशिरा यस्तु वर्षाणामयुतं नरः । मासमेकं तु गंगांभः सेवते यो नरोत्तमः
ब्रह्महत्याविनिर्मुक्तो याति विष्णोरनामयम् । इयं वेणीसमा पुण्या पवित्रा पापनाशिनी
यस्याः स्मरणमात्रेण बालहा मुच्यते क्षणात् । स प्रयागस्तीर्थराजो वैष्णवानां हि दुर्ल्लभः
स्नात्वा यत्र नरश्रेष्ठ वैकुंठे सत्वरं व्रजेत् । प्रियाप्रिये न जानाति धर्माधर्मौ न विंदति
स्नात्वा चैव तु गंगायां महापापात्प्रमुच्यते
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
ब्रह्महा चैव गोघ्नो वा सुरापी बालघातकः । मुच्यते सर्वपापेभ्यो दिवं याति च सत्वरम्
दर्शनं माधवस्याथ वरस्य दर्शनं तथा । वेण्यां स्नानं प्रकुर्वाणो वैकुंठं प्रति गच्छति
उदिते च यथा सूर्ये विलयं याति वै तमः । तथैव तस्यां पापानि नश्यंति स्नानमात्रतः
गंगाद्वारे कुशावर्ते गल्लिके(बिल्वके?) नीलपर्वते । स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते