भविष्यद्दण्डपतनं शरीरे तस्य वीक्ष्य च। संपश्यमानस्तं दोषं घोरं पुत्रस्य राघव
स विंध्यनीलयोर्मध्ये राज्यमस्य ददौ प्रभुः। स दंडस्तत्र राजाभूद्रम्ये पर्वतमूर्द्धनि
पुरं चाप्रतिमं तेन निवेशाय तथा कृतम्। नाम तस्य पुरस्याथ मधुमत्तमिति स्वयम्
तथादेशेन संपन्नः शूरो वासमथाकरोत्। एवं राजा स तद्राज्यं चकार सपुरोहितः
प्रहृष्ट सुप्रजाकीर्णं देवराजो यथा दिवि। ततः स दंडः काकुत्स्थ बहुवर्षगणायुतम्
अकारयत्तु धर्मात्मा राज्यं निहतकंटकं। अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम्
रमणीयमुपाक्रामच्चैत्रमासे मनोरमे। तत्र भार्गवकन्यां तु रूपेणाप्रतिमां भुवि
विचरंतीं वनोद्देशे दंडोऽपश्यदनुत्तमाम्। उत्तुंगपीवरीं श्यामां चंद्राभवदनां शुभाम्
सुनासां चारुसर्वांगीं पीनोन्नतपयोधराम्। मध्ये क्षामां च विस्तीर्णां दृष्ट्वा तां कुरुते मुदम्
एकवस्त्रां वने चैकां प्रथमे यौवने स्थिताम्। स तां दृष्ट्वात्वधर्मेण अनंगशरपीडितः
अभिगम्य सुविश्रांतां कन्यां वचनमब्रवीत्। कुतस्त्वमसि सुश्रोणि कस्य चासि सुशोभने
पीडतोहमनंगेन पृच्छामि त्वां सुशोभने। त्वया मेऽपहृतं चित्तं दर्शनादेव सुंदरि
इदं ते वदनं रम्यं मुनीनां चित्तहारकम्। यद्यहं न लभे भोक्तुं मृतं मामवधारय
त्वया हृता मम प्राणा मां जीवय सुलोचने। दासोस्मि ते वरारोहे भक्तं मां भज शोभने
तस्यैवं तु ब्रुवाणस्य मदोन्मत्तस्य कामिनः। भार्गवी प्रत्युवाचेदं वचः सविनयं नृपम्
भार्गवस्य सुतां विद्धि शुक्रस्याक्लिष्टकर्मणः। अरजां नाम राजेंद्र ज्येष्ठामाश्रमवासिनः
शुक्रः पिता मे राजेंद्र त्वं च शिष्यो महात्मनः। धर्मतो भगिनी चाहं भवामि नृपनंदन
एवंविधं वचो वक्तुं न त्वमर्हसि पार्थिव। अन्येभ्योपि सुदुष्टेभ्यो रक्ष्या चाहं सदा त्वया
क्रोधनो मे पिता रौद्रो भस्मत्वं त्वां समानयेत्। अथवा राजधर्मेणासंबंधं कुरुषे बलात्
पितरं याचयस्व त्वं धर्मदृष्टेन कर्मणा। वरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम्
अन्यथा विपुलं दुःखं तव घोरं भवेद्ध्रुवम्। क्रुद्धो हि मे पिता सर्वं त्रैलोक्यमभिनिर्दहेत्
ततोऽशुभं महाघोरं श्रुत्वा दंडः सुदारुणम्। प्रत्युवाच मदोन्मत्तः शिरसाभिनतः पुनः
प्रसादं कुरु सुश्रोणि कामोन्मत्तस्य कामिनि। त्वया रुद्धा मम प्राणा विशीर्यंति शुभानने
त्वां प्राप्य वैरं मेऽत्रास्तु वधो वापि महत्तरः। भक्तं भजस्व मां भीरु त्वयि भक्तिर्हि मे परा
एवमुक्त्वा तु तां कन्यां बलात्संगृह्य बाहुना। अन्येन राज्ञा हस्तेन विवस्त्रा सा तथा कृता
अंगमंगे समाश्लेष्य मुखे चैव मुखं कृतम्। विस्फुरंतीं यथाकामं मैथुनायोपचक्रमे
तमनर्थं महाघोरं दंडः कृत्वा सुदारुणम्। नगरं स्वं जगामाशु मदोन्मत्त इव द्विपः
भार्गवी रुदती दीना आश्रमस्याविदूरतः। प्रत्यपालयदुद्विग्ना पितरं देवसम्मितम्
स मुहूर्तादुपस्पृश्य देवर्षिरमितद्युतिः। स्वमाश्रमं शिष्यवृतं क्षुधार्तः सन्यवर्तत
सोपश्यदरजां दीनां रजसा समभिप्लुताम्। चंद्रस्य घनसंयुक्तां ज्योत्स्नामिव पराजिताम्