येन लोकोऽक्षयः स्वर्गो भविता त्वत्कृतेन मे। ततः प्रतिग्रहो दत्तो जगद्वंद्य नृपेण हि
भवान्मामनुगृह्णातु प्रतीच्छस्व प्रतिग्रहम्
कृता मतिस्तारणाय न लोभाद्रघुनंदन। गृहीते भूषणे राम मम हस्तगते तदा
मानुषः पौर्विको देहस्तदा नष्टोस्य भूपते। प्रणष्टे तु शरीरे च राजर्षिः परया मुदा
मयोक्तोसौ विमानेन जगाम त्रिदिवं पुनः। तेन मे शक्रतुल्येन दत्तमाभरणं शुभं
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतकर्मणा। श्वेतो वैदर्भको राजा तदाभूद्गतकल्मषः
पुलस्त्य उवाच। तदद्भुततमं वाक्यं श्रुत्वा च रघुनंदनः। गौरवाद्विस्मयाच्चापि भूयः प्रष्टुं प्रचक्रमे
राम उवाच। भगवंस्तद्वनं घोरं यत्रासौ तप्तवांस्तपः। श्वेतो वैदर्भको राजा तदद्भुतमभूत्कथं
विषमं तद्वनं राजा शून्यं मृगविवर्जितं। प्रविष्टस्तप आस्थातुं कथं वद महामुने
समंताद्योजनशतं निर्मनुष्यमभूत्कथं। भवान्कथं प्रविष्टस्तद्येन कार्येण तद्वद
अगस्त्य उवाच। पुरा कृतयुगे राजा मनुर्दंडधरः प्रभुः। तस्य पुत्रोथ नाम्नासीदिक्ष्वाकुरमितद्युतिः
तं पुत्रं पूर्वजं राज्ये निक्षिप्य भुविसंमतम्। पृथिव्यां राजवंशानां भव राजेत्युवाच ह
तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव। ततःपरमसंहृष्टः पुनस्तं प्रत्यभाषत
प्रीतोस्मि परमोदार कर्मणा ते न संशयः। दंडेन च प्रजा रक्ष न च दंडमकारणम्
अपराधिषु यो दंडः पात्यते मानवैरिह। स दंडो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम्
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक। धर्मस्ते परमो लोके कृत एवं भविष्यति
इति तं बहुसंदिश्य मनुः पुत्रं समाधिना। जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम्
जनयिष्ये कथं पुत्रानिति चिंतापरोऽभवत्। कर्मभिर्बहुभिस्तैस्तैस्ससुतैस्संयुतोऽभवत्
तोषयामास पुत्रैस्स पितॄन्देवसुतोपमैः। सर्वेषामुत्तमस्तेषां कनीयान्रघुनंदन
शूरश्च कृतविद्यश्च गुरुश्च जनपूजया। नाम तस्याथ दंडेति पिता चक्रे स बुद्धिमान्
भविष्यद्दण्डपतनं शरीरे तस्य वीक्ष्य च। संपश्यमानस्तं दोषं घोरं पुत्रस्य राघव
स विंध्यनीलयोर्मध्ये राज्यमस्य ददौ प्रभुः। स दंडस्तत्र राजाभूद्रम्ये पर्वतमूर्द्धनि
पुरं चाप्रतिमं तेन निवेशाय तथा कृतम्। नाम तस्य पुरस्याथ मधुमत्तमिति स्वयम्
तथादेशेन संपन्नः शूरो वासमथाकरोत्। एवं राजा स तद्राज्यं चकार सपुरोहितः
प्रहृष्ट सुप्रजाकीर्णं देवराजो यथा दिवि। ततः स दंडः काकुत्स्थ बहुवर्षगणायुतम्
अकारयत्तु धर्मात्मा राज्यं निहतकंटकं। अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम्
रमणीयमुपाक्रामच्चैत्रमासे मनोरमे। तत्र भार्गवकन्यां तु रूपेणाप्रतिमां भुवि
विचरंतीं वनोद्देशे दंडोऽपश्यदनुत्तमाम्। उत्तुंगपीवरीं श्यामां चंद्राभवदनां शुभाम्
सुनासां चारुसर्वांगीं पीनोन्नतपयोधराम्। मध्ये क्षामां च विस्तीर्णां दृष्ट्वा तां कुरुते मुदम्
एकवस्त्रां वने चैकां प्रथमे यौवने स्थिताम्। स तां दृष्ट्वात्वधर्मेण अनंगशरपीडितः