तं मुनिं कृच्छ्रसन्तप्तश्चिंतयामि दिवानिशम्। कदा वै दर्शनं मह्यं स मुनिर्दास्यते वने
एवं मे चिंतयानस्य गतं वर्षशतन्त्विह। सोगस्त्यो हि गतिर्ब्रह्मन्मुनिर्मे भविता ध्रुवं
न गतिर्भविता मह्यं कुंभयोनिमृते द्विजम्। श्रुत्वेत्थं भाषितं राम दृष्ट्वाहारं च कुत्सितम्
कृपया परया युक्तस्तं नृपं स्वर्गगामिनम्। करोम्यहं सुधाभोज्यं नाशयामि च कुत्सितम्
चिन्तयन्नित्यवोचं तमगस्त्यः किं करिष्यति। अहमेतत्कुत्सितं ते नाशयामि महामते
ईप्सितं प्रार्थयस्वास्मान्मनः प्रीतिकरं परम्। स स्वर्गी मां ततः प्राह कथं ब्रह्मवचोन्यथा
कर्तुं मुने मया शक्यं न चान्यस्तारयिष्यति। ॠते वै कुंभयोनिं तं मैत्रावरुणसंभवम्
अपृष्टोपि मया ब्रह्मन्नेवमूचे पितामहः। एवं ब्रुवाणं तं श्वेतमुक्तवानहमस्मि सः
आगतस्तव भाग्येन दृष्टोहं नात्र संशयः। ततः स्वर्गी स मां ज्ञात्वा दंडवत्पतितो भुवि
तमुत्थाप्य ततो रामाब्रवं किं ते करोम्यहम्। राजोवाच। आहारात्कुत्सिताद्ब्रह्मंस्तारयस्वाद्य दुष्कृतात्
येन लोकोऽक्षयः स्वर्गो भविता त्वत्कृतेन मे। ततः प्रतिग्रहो दत्तो जगद्वंद्य नृपेण हि
भवान्मामनुगृह्णातु प्रतीच्छस्व प्रतिग्रहम्
कृता मतिस्तारणाय न लोभाद्रघुनंदन। गृहीते भूषणे राम मम हस्तगते तदा
मानुषः पौर्विको देहस्तदा नष्टोस्य भूपते। प्रणष्टे तु शरीरे च राजर्षिः परया मुदा
मयोक्तोसौ विमानेन जगाम त्रिदिवं पुनः। तेन मे शक्रतुल्येन दत्तमाभरणं शुभं
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतकर्मणा। श्वेतो वैदर्भको राजा तदाभूद्गतकल्मषः
पुलस्त्य उवाच। तदद्भुततमं वाक्यं श्रुत्वा च रघुनंदनः। गौरवाद्विस्मयाच्चापि भूयः प्रष्टुं प्रचक्रमे
राम उवाच। भगवंस्तद्वनं घोरं यत्रासौ तप्तवांस्तपः। श्वेतो वैदर्भको राजा तदद्भुतमभूत्कथं
विषमं तद्वनं राजा शून्यं मृगविवर्जितं। प्रविष्टस्तप आस्थातुं कथं वद महामुने
समंताद्योजनशतं निर्मनुष्यमभूत्कथं। भवान्कथं प्रविष्टस्तद्येन कार्येण तद्वद
अगस्त्य उवाच। पुरा कृतयुगे राजा मनुर्दंडधरः प्रभुः। तस्य पुत्रोथ नाम्नासीदिक्ष्वाकुरमितद्युतिः
तं पुत्रं पूर्वजं राज्ये निक्षिप्य भुविसंमतम्। पृथिव्यां राजवंशानां भव राजेत्युवाच ह
तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव। ततःपरमसंहृष्टः पुनस्तं प्रत्यभाषत
प्रीतोस्मि परमोदार कर्मणा ते न संशयः। दंडेन च प्रजा रक्ष न च दंडमकारणम्
अपराधिषु यो दंडः पात्यते मानवैरिह। स दंडो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम्
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक। धर्मस्ते परमो लोके कृत एवं भविष्यति
इति तं बहुसंदिश्य मनुः पुत्रं समाधिना। जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम्
जनयिष्ये कथं पुत्रानिति चिंतापरोऽभवत्। कर्मभिर्बहुभिस्तैस्तैस्ससुतैस्संयुतोऽभवत्
तोषयामास पुत्रैस्स पितॄन्देवसुतोपमैः। सर्वेषामुत्तमस्तेषां कनीयान्रघुनंदन
शूरश्च कृतविद्यश्च गुरुश्च जनपूजया। नाम तस्याथ दंडेति पिता चक्रे स बुद्धिमान्