श्रुत्वा च भाषितं तत्र मम राम सतां वर। प्रांजलिः प्रत्युवाचेदं स स्वर्गी रघुनंदन
शृणुष्वाद्य यथावृत्तं ममेदं सुखदुःखजम्। कामो हि दुरितक्रम्यः शृणु यत्पृच्छसे द्विज
पुरा वैदर्भको राजा पिता मे हि महायशाः। वासुदेव इति ख्यातस्त्रिषु लोकेषु धार्मिकः
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत। अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत्
पितर्युपरते तस्मिन्पौरा मामभ्यषेचयन्। तत्राहंकारयन्राज्यं धर्मे चासं समाहितः
एवं वर्षसहस्राणि बहूनि समुपाव्रजन्। मम राज्यं कारयतः परिपालयतः प्रजाः
सोहं निमित्ते कस्मिंश्चिद्वैराग्येण द्विजोत्तम। मरणं हृदये कृत्वा तपोवनमुपागमम्
सोहं वनमिदं रम्यं भृशं पक्षिविवर्जितम्। प्रविष्टस्तप आस्थातुमस्यैव सरसोंतिके
राज्येऽभिषिच्य सुरथं भ्रातरं तं नराधिपम्। इदं सरः समासाद्य तपस्तप्तं सुदारुणम्
दशवर्षसहस्राणि तपस्तप्त्वा महावने। शुभं तु भवनं प्राप्तो ब्रह्मलोकमनामयम्
स्वर्गस्थमपि मां ब्रह्मन्क्षुत्पिपासे द्विजोत्तम। अबाधेतां भृशं चाहमभवं व्यथितेंद्रियः
ततस्त्रिभुवनश्रेष्ठमवोचं वै पितामहम्। भगवन्स्वर्गलोकोऽयं क्षुत्पिपासा विवर्जितः
कस्येयं कर्मणः पक्तिः क्षुत्पिपासे यतो हि मे। आहारः कश्च मे देव ब्रूहि त्वं श्रीपितामह
ततः पितामहः सम्यक्चिरं ध्यात्वा महामुने। मामुवाच ततो वाक्यं नास्ति भोज्यं स्वदेहजम्
ॠते ते स्वानि मांसानि भक्षय त्वं तु हि नित्यशः। स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्
नादत्तं जायते तात श्वेत पश्य महीतले। आग्रहाद्भिक्षमाणाय भिक्षापि प्राणिने पुरा
न हि दत्ता गृहे भ्रांत्या मोहादतिथये तदा। तेन स्वर्गगतस्यापि क्षुत्पिपासे तवाधुना
स त्वं प्रपुष्टमाहारैः स्वशरीरमनुत्तमम्। भक्षयस्व च राजेंद्र सा ते तृप्तिर्भविष्यति1.36.
एवमुक्तस्ततो देवं ब्रह्माणमहमुक्तवान्। भक्षिते च स्वके देहे पुनरन्यन्न मे विभो
क्षुधानिवारणं नैव देहस्यास्य विनौदनं। खादामि ह्यक्षयं देव प्रियं मे न हि जायते
ततोब्रवीत्पुनर्ब्रह्मा तव देहोऽक्षयः कृतः। दिनेदिने ते पुष्टात्मा शवः श्वेत भविष्यति
यावद्वर्षशतं पूर्णं स्वमांसं खाद भो नृप। यदागच्छति चागस्त्यः श्वेतारण्यं महातपाः
भगवानतिदुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यसे। स हि तारयितुं शक्तः सेंद्रानपि सुरासुरान्
आहारं कुत्सितं चेमं राजर्षे किं पुनस्तव। सुरकार्यं महत्तेन सुकृतं तु महात्मना
उदधिं निर्जलं कृत्वा दानवाश्च निपातिताः। विंध्यश्चादित्यविद्वेषाद्वर्धमानो निवारितः
लंबमाना मही चैषा गुरुत्वेनाधिवासिता। दक्षिणा दिग्दिवं याता त्रैलाक्यं विषमस्थितम्
मया गत्वा सुरैः सार्द्धं प्रेषितो दक्षिणां दिशम्। समां कुरु महाभाग गुरुत्वेन जगत्समम्
एवं च तेन मुनिना स्थित्वा सर्वा धरा समा। कृता राजेंद्र मुनिना एवमद्यापि दृश्यते
सोहं भगवत श्रुत्वा देवदेवस्य भाषितम्। भुंजे च कुत्सिताहारं स्वशरीरमनुत्तमम्
पूर्णं वर्षशतं चाद्य भोजनं कुत्सितं च मे। क्षयं नाभ्येति तद्विप्र तृप्तिश्चापि ममोत्तमा