दृष्ट्वा प्रीतिसमायुक्तो भूयश्चेदं व्यचिंतयत्। नेदृशानि च रत्नानि मया दृष्टानि कानिचित्
उपशोभानि बद्धानि पृथ्वीमूल्यसमानि च। विभीषणस्य लंकायां न दृष्टानि मया पुरा
इति संचित्य मनसा राघवस्तमृषिं पुनः। आगमं तस्य दिव्यस्य प्रष्टुं समुपचक्रमे
अत्यद्भुतमिदं ब्रह्मन्न प्राप्यं च महीक्षिताम्। कथं भगवता प्राप्तं कुतो वा केन निर्मितम्
कुतूहलवशाच्चैव पृच्छामि त्वां महामते। करतलेस्थिते रत्ने करमध्यं प्रकाशते
अधमं तद्विजानीयात्सर्वशास्त्रेषु गर्हितम्। दिशः प्रकाशयेद्यत्तन्मध्यमं मुनिसत्तम
ऊर्ध्वगं त्रिशिखं यत्स्यादुत्तमं तदुदाहृतम्। एतान्युत्तमजातीनि ऋषिभिः कीर्तितानि तु
आश्चर्याणां बहूनां हि दिव्यानां भगवान्निधिः। एवं वदति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्
अगस्त्य उवाच। शृणु राम पुरावृत्तं पुरा त्रेतायुगे महत्। द्वापरे समनुप्राप्ते वने यद्दृष्टवानहम्
आश्चर्यं सुमहाबाहो निबोध रघुनंदन। पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम्
समंताद्योजनशतं मृगव्याघ्रविवर्जितम्। तस्मिन्निष्पुरुषेऽरण्ये चिकीर्षुस्तप उत्तमम्
अहमाक्रमितुं सौम्य तदरण्यमुपागतः। तस्यारण्यस्य मध्यं तु युक्तं मूलफलैः सदा
शाकैर्बहुविधाकारैर्नानारूपैः सुकाननैः। तस्यारण्यस्य मध्ये तु पंचयोजनमायतम्
हंसकारंडवाकीर्णं चक्रवाकोपशोभितम्। तत्राश्चर्यं मया दृष्टं सरः परमशोभितम्
विसारिकच्छपाकीर्णं बकपंक्तिगणैर्युतम्। समीपे तस्य सरसस्तपस्तप्तुं गतः पुरा
देशं पुण्यमुपेत्यैवं सर्वहिंसाविवर्जितम्। तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ
प्रभाते पुरुत्थाय सरस्तदुपचक्रमे। अथापश्यं शवमहमस्पृष्टजरसं क्वचित्
तिष्ठंतं परया लक्ष्म्या सरसो नातिदूरतः। तदर्थं चिंतयानोहं मुहूर्तमिव राघव
अस्य तीरे न वै प्राणी को वाप्येष सुरर्षभः। मुनिर्वा पार्थिवो वापि क्व मुनिः पार्थिवोपि वा
अथवा पार्थिवसुतस्तस्यैवं संभवः कृतः। अतीतेहनि रात्रौ वा प्रातर्वापि मृतो यदि
अवश्यं तु मया ज्ञेया सरसोस्य विनिष्क्रिया। यावदेवं स्थितश्चाहं चिंतयानो रघूत्तम
अथापश्यं मूहूर्तात्तु दिव्यमद्भुतदर्शनम्। विमानं परमोदारं हंसयुक्तं मनोजवम्
पुरस्तत्र सहस्रं तु विमानेप्सरसां नृप। गंधर्वाश्चैव तत्संख्या रमयंति वरं नरम्
गायंति दिव्यगेयानि वादयंति तथा परे। अथापश्यं नरं तस्माद्विमानादवरोहितम्
शवमांसं भक्षयन्तं च स्नात्वा रघुकुलोद्वह। ततो भुक्त्वा यथाकामं स मांसं बहुपीवरम्
अवतीर्य सरः शीघ्रमारुरोह दिवं पुनः। तमहं देवसंकाशं श्रिया परमयान्वितम्
भो भो स्वर्गिन्महाभाग पृच्छामि त्वां कथं त्विदम्। जुगुप्सितस्तवाहारो गतिश्चेयं तवोत्तमा
यदि गुह्यं न चैतत्ते कथय त्वद्य मे भवान्। कामतः श्रोतुमिच्छामि किमेतत्परमं वचः
को भवान्वद संदेहमाहारश्च विगर्हितः। त्वयेदं भुज्यते सौम्य किमर्थं क्व च वर्तसे
कस्यायमैश्वरोभावः शवत्वेन विनिर्मितः। आहारं च कथं निंद्यं श्रोतुमिच्छामि तत्त्वतः