केवलं दोषभागी च भवामीह न संशयः। कष्टां चैव दशां प्राप्य क्षत्रियोपि प्रतिग्रही
कुर्वन्न दोषमाप्नोति मनुरेवात्र कारणम्। वृद्धौ च मातापितरौ साध्वी भार्या शिशुः सुतः
अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्। नाहं प्रतीच्छे विप्रर्षे त्वया दत्तं प्रतिग्रहं
न च मे भवता कोपः कार्यो वै सुरपूजित
अगस्त्य उवाच। न च प्रतिग्रहे दोषो गृहीते पार्थिवैर्नृप। भवान्वै तारणे शक्तस्त्रैलोक्यस्यापि राघव
तारय ब्राह्मणं राम विशेषेण तपस्विनं। तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नराघिप
राम उवाच। क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता। ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि
अगस्त्य उवाच। आसीत्कृतयुगे राम ब्रह्मपूते पुरातने। अपार्थिवाः प्रजाः सर्वाः सुराणां च शतक्रतुः
ताः प्रजा देवदेवेशं राजार्थं समुपागमन्। सुराणां विद्यते राजा देवदेवः शतक्रतुः
श्रेयसेस्मासु लोकेश पार्थिवं कुरु सांप्रतं। यस्मिन्पूजां प्रयुंजानाः पुरुषा भुंजते महीम्
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान्। समाहूयाब्रवीत्सर्वांस्तेजोभागोऽत्र युज्यताम्
ततो ददुर्लोकपालाश्चतुर्भागं स्वतेजसा। अक्षयश्च ततो ब्रह्मा यतो जातोऽक्षयो नृपः
तं ब्रह्मा लोकपालानामंशं पुंसामयोजयत्। ततो नृपस्तदा तासां प्रजानां क्षेमपंडितः
तत्रैंद्रेण तु भागेन सर्वानाज्ञापयेन्नृपः। वारुणेन च भागेन सर्वान्पुष्णाति देहिनः
कौबेरेण तथांशेन त्वर्थान्दिशति पार्थिवः। यश्च याम्यो नृपे भागस्तेन शास्ति च वै प्रजाः
तत्र चैंद्रेण भागेन नरेन्द्रोसि रघूत्तम। प्रतिगृह्णीष्वाभरणं तारणार्थे मम प्रभो
ततो रामः प्रजग्राह मुनेर्हस्तान्महात्मनः। दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करं
प्रतिगृह्य ततोगस्त्याद्राघवः परवीरहा। निरीक्ष्य सुचिरं कालं विचार्य च पुनः पुनः1.36.
मौक्तिकानि विचित्राणि धात्रीफलसमानि च। जांबूनदनिबद्धानि वज्रविद्रुमनीलकैः
पद्मरागैः सगोमेधैर्वैडूर्यैः पुष्परागकैः। सुनिबद्धं सुविभक्तं सुकृतं विश्वकर्मणा
दृष्ट्वा प्रीतिसमायुक्तो भूयश्चेदं व्यचिंतयत्। नेदृशानि च रत्नानि मया दृष्टानि कानिचित्
उपशोभानि बद्धानि पृथ्वीमूल्यसमानि च। विभीषणस्य लंकायां न दृष्टानि मया पुरा
इति संचित्य मनसा राघवस्तमृषिं पुनः। आगमं तस्य दिव्यस्य प्रष्टुं समुपचक्रमे
अत्यद्भुतमिदं ब्रह्मन्न प्राप्यं च महीक्षिताम्। कथं भगवता प्राप्तं कुतो वा केन निर्मितम्
कुतूहलवशाच्चैव पृच्छामि त्वां महामते। करतलेस्थिते रत्ने करमध्यं प्रकाशते
अधमं तद्विजानीयात्सर्वशास्त्रेषु गर्हितम्। दिशः प्रकाशयेद्यत्तन्मध्यमं मुनिसत्तम
ऊर्ध्वगं त्रिशिखं यत्स्यादुत्तमं तदुदाहृतम्। एतान्युत्तमजातीनि ऋषिभिः कीर्तितानि तु
आश्चर्याणां बहूनां हि दिव्यानां भगवान्निधिः। एवं वदति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्
अगस्त्य उवाच। शृणु राम पुरावृत्तं पुरा त्रेतायुगे महत्। द्वापरे समनुप्राप्ते वने यद्दृष्टवानहम्
आश्चर्यं सुमहाबाहो निबोध रघुनंदन। पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम्