पश्यामि तं मुनिं वंद्यं जगतोस्य हिते रतम्। दृष्टेन मे तथा दुःखं नाशमेष्यति सत्वरम्
उदयेन सहस्रांशोर्हिमं यद्वद्विलीयते। तद्वन्मे दुःखसंप्राप्तिः सर्वथा नाशमेष्यति
दृष्ट्वा च देवान्संप्राप्तानगस्त्यो भगवानृषिः। अर्घ्यमादाय सुप्रीतः सर्वांस्तानभ्यपूजयत्
ते तु गृह्य ततः पूजां संभाष्य च महामुनिं। जग्मुस्तेन तदा हृष्टा नाकपृष्ठं सहानुगाः
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च। अभिवादयितुं प्राप्तः सोगस्त्यमृषिमुत्तमम्
राजोवाच। सुतो दशरथस्याहं भवंतमभिवादितुम्। आगतो वै मुनिश्रेष्ठ सौम्येनेक्षस्व चक्षुषा
निर्धूतपापस्त्वां दृष्ट्वा भवामीह न संशयः। एतावदुक्त्वा स मुनिमभिवाद्य पुनः पुनः
कुशलं भृत्यवर्गस्य मृगाणां तनयस्य च। भगवद्दर्शनाकांक्षी शूद्रं हत्वा त्विहागतः
अगस्त्य उवाच। स्वागतं ते रघुश्रेष्ठ जगद्वंद्य सनातन। दर्शनात्तव काकुत्स्थ पूतोहं मुनिभिः सह
त्वत्कृते रघुशार्दूल गृहाणार्घं महाद्युते। स्वागतं नरशार्दूल दिष्ट्या प्राप्तोसि शत्रुहन्
त्वं हि नित्यं बहुमतो गुणैर्बहुभिरुत्तमैः। अतस्त्वं पूजनीयो वै मम नित्यं हृदिस्थितः
सुरा हि कथयंति त्वां शूद्रघातिनमागतं। ब्राह्मणस्य च धर्मेण त्वया वै जीवितः सुतः
उष्यतां चेह भगवः सकाशे मम राघव। प्रभाते पुष्पकेणासि गंतायोध्यां महामते
इदं चाभरणं सौम्य सुकृतं विश्वकर्मणा। दिव्यं दिव्येनवपुषा दीप्यमानं स्वतेजसा
प्रतिगृह्णीष्व राजेन्द्र मत्प्रियं कुरु राघव। लब्धस्य हि पुनर्द्दाने सुमहत्फलमुच्यते
त्वं हि शक्तः परित्रातुं सेंद्रानपि सुरोत्तमान्। तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नरर्षभ
अथोवाच महाबाहुरिक्ष्वाकूणां महारथः। कृतांजलिर्मुनिश्रेष्ठं स्वं च धर्ममनुस्मरन्
प्रतिग्रहो वै भगवंस्तव मेऽत्र विगर्हितः। क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता
ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि। सपुत्रो गृहवानस्मि समर्थोस्मि महामुने
आपदा चन चाक्रांतः कथं ग्राह्यः प्रतिग्रहः। भार्या मे सुचिरं नष्टा न चान्या मम विद्यते
केवलं दोषभागी च भवामीह न संशयः। कष्टां चैव दशां प्राप्य क्षत्रियोपि प्रतिग्रही
कुर्वन्न दोषमाप्नोति मनुरेवात्र कारणम्। वृद्धौ च मातापितरौ साध्वी भार्या शिशुः सुतः
अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्। नाहं प्रतीच्छे विप्रर्षे त्वया दत्तं प्रतिग्रहं
न च मे भवता कोपः कार्यो वै सुरपूजित
अगस्त्य उवाच। न च प्रतिग्रहे दोषो गृहीते पार्थिवैर्नृप। भवान्वै तारणे शक्तस्त्रैलोक्यस्यापि राघव
तारय ब्राह्मणं राम विशेषेण तपस्विनं। तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नराघिप
राम उवाच। क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता। ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि
अगस्त्य उवाच। आसीत्कृतयुगे राम ब्रह्मपूते पुरातने। अपार्थिवाः प्रजाः सर्वाः सुराणां च शतक्रतुः
ताः प्रजा देवदेवेशं राजार्थं समुपागमन्। सुराणां विद्यते राजा देवदेवः शतक्रतुः
श्रेयसेस्मासु लोकेश पार्थिवं कुरु सांप्रतं। यस्मिन्पूजां प्रयुंजानाः पुरुषा भुंजते महीम्