ममापराधाद्बालोऽसौ ब्राह्मणस्यैकपुत्रकः। अप्राप्तकालः कालेन नीतो वैवस्वत क्षयम्
तं जीवयत भद्रं वो नानृती स्यामहं गुरोः। द्विजस्य संश्रुतो ह्यर्थो जीवयिष्यामि ते सुतम्
मदीयेनायुषा बालं पादेनार्द्धेन वा सुराः। जीवेदयं वरो मह्यं वरकोट्यधिको वृतः
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः। प्रत्यूचुस्ते महात्मानं प्रीताः प्रीतिसमन्विताः
निर्वृतो भव काकुत्स्थ ब्राह्मणस्यैकपुत्रकः। जीवितं प्राप्तवान्भूयः समेतश्चापि बंधुभिः
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः। तस्मिन्मुहूर्ते सहसा जीवेन समयुज्यत
स्वस्ति प्राप्नुहि भद्रं ते साधयामः परंतपः। अगस्त्यस्याश्रमपदे द्रष्टारः स्म महामुनिम्
स तथेति प्रतिज्ञाय देवानां रघुनंदनः। आरुरोह विमानं तं पुष्पकं हेमभूषितम्
पुलस्त्य उवाच। ततो देवाः प्रयातास्ते विमानैर्बहुभिस्तदा। रामोप्यनुजगामाशु कुंभयोनेस्तपोवनम्
उक्तं भगवता तेन भूयोप्यागमनं क्रियाः। पूर्वमेव सभायां च यो मां द्रष्टुं समागतः
तदहं देवतादेशात्तत्कार्यार्थे महामुनिं। पश्यामि तं मुनिं गत्वा देवदानवपूजितम्
उपदेशं च मे तुष्टः स्वयं दास्यति सत्तमः। दुःखी येन पुनर्मर्त्ये न भवामि कदाचन
पिता दशरथो मह्यं कौसल्या जननी तथा। सूर्यवंशे समुत्पन्नस्तथाप्येवं सुदुःखितः
राज्यकाले वने वासो भार्यया चानुजेन च। हरणं चापि भार्याया रावणेन कृतं मम
असहायेन तु मया तीर्त्वा सागरमुत्तमम्। रुद्ध्वा तु तां पुरीं सर्वां कृत्वा तस्य कुलक्षयम्
दृष्टा सीता मया त्यक्ता देवानां तु पुरस्तदा। शुद्धां तां मां तथोचुस्ते मया सीता तथा गृहम्
समानीता प्रीतिमता लोकवाक्याद्विसर्जिता। वने वसति सा देवी पुरे चाहं वसामि वै
जातोहमुत्तमे वंशे उत्तमोहं धनुष्मताम्। उत्तमं दुःखमापन्नो हृदयं नैव भिद्यते
वज्रसारस्य सारेण धात्राहं निर्मितो ध्रुवम्। इदानीं ब्राह्मणादेशाद्भ्रमामि धरणीतले
तपः स्थितस्तु शूद्रोसौ मया पापो निपातितः। देववाक्यात्तु मे भूयः प्राणो मे हृदि संस्थितः
पश्यामि तं मुनिं वंद्यं जगतोस्य हिते रतम्। दृष्टेन मे तथा दुःखं नाशमेष्यति सत्वरम्
उदयेन सहस्रांशोर्हिमं यद्वद्विलीयते। तद्वन्मे दुःखसंप्राप्तिः सर्वथा नाशमेष्यति
दृष्ट्वा च देवान्संप्राप्तानगस्त्यो भगवानृषिः। अर्घ्यमादाय सुप्रीतः सर्वांस्तानभ्यपूजयत्
ते तु गृह्य ततः पूजां संभाष्य च महामुनिं। जग्मुस्तेन तदा हृष्टा नाकपृष्ठं सहानुगाः
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च। अभिवादयितुं प्राप्तः सोगस्त्यमृषिमुत्तमम्
राजोवाच। सुतो दशरथस्याहं भवंतमभिवादितुम्। आगतो वै मुनिश्रेष्ठ सौम्येनेक्षस्व चक्षुषा
निर्धूतपापस्त्वां दृष्ट्वा भवामीह न संशयः। एतावदुक्त्वा स मुनिमभिवाद्य पुनः पुनः
कुशलं भृत्यवर्गस्य मृगाणां तनयस्य च। भगवद्दर्शनाकांक्षी शूद्रं हत्वा त्विहागतः
अगस्त्य उवाच। स्वागतं ते रघुश्रेष्ठ जगद्वंद्य सनातन। दर्शनात्तव काकुत्स्थ पूतोहं मुनिभिः सह
त्वत्कृते रघुशार्दूल गृहाणार्घं महाद्युते। स्वागतं नरशार्दूल दिष्ट्या प्राप्तोसि शत्रुहन्