यदेतद्भवता प्रोक्तं योनौ कस्यां तु ते तपः। शूद्रयोनिप्रसूतोहं तप उग्रं समास्थितः
देवत्वं प्रार्थये राम स्वशरीरेण सुव्रत। न मिथ्याहं वदे भूप देवलोकजिगीषया
शूद्रं मां विद्धि काकुत्स्थ शंबूकं नाम नामतः। भाषतस्तस्य काकुत्स्थः खड्गं तु रुचिरप्रभं
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः। तस्मिन्शूद्रे हते देवाः सेन्द्राश्चाग्निपुरोगमाः
साधुसाध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः। पुष्पवृष्टिश्च महती देवानां सुसुगंधिनी
आकाशाद्विप्रमुक्ता तु राघवं सर्वतोकिरत्। सुप्रीताश्चाब्रुवन्देवा रामं वाक्यविदांवरम्
सुरकार्यमिदं सौम्य कृतं ते रघुनंदन। गृहाण च वरं राम यमिच्छसि महाव्रत
त्वत्कृतेन हि शूद्रोऽयं सशरीरोऽभ्यगाद्दिवं। देवानां भाषितं श्रुत्वा राघवः सुसमाहितः
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरंदरम्। यदि देवाः प्रसन्ना मे वरार्हो यदि वाप्यहम्
कर्मणा यदि मे प्रीता द्विजपुत्रः स जीवतु। वरमेतद्धि भवतां कांक्षितं परमं हि मे
ममापराधाद्बालोऽसौ ब्राह्मणस्यैकपुत्रकः। अप्राप्तकालः कालेन नीतो वैवस्वत क्षयम्
तं जीवयत भद्रं वो नानृती स्यामहं गुरोः। द्विजस्य संश्रुतो ह्यर्थो जीवयिष्यामि ते सुतम्
मदीयेनायुषा बालं पादेनार्द्धेन वा सुराः। जीवेदयं वरो मह्यं वरकोट्यधिको वृतः
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः। प्रत्यूचुस्ते महात्मानं प्रीताः प्रीतिसमन्विताः
निर्वृतो भव काकुत्स्थ ब्राह्मणस्यैकपुत्रकः। जीवितं प्राप्तवान्भूयः समेतश्चापि बंधुभिः
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः। तस्मिन्मुहूर्ते सहसा जीवेन समयुज्यत
स्वस्ति प्राप्नुहि भद्रं ते साधयामः परंतपः। अगस्त्यस्याश्रमपदे द्रष्टारः स्म महामुनिम्
स तथेति प्रतिज्ञाय देवानां रघुनंदनः। आरुरोह विमानं तं पुष्पकं हेमभूषितम्
पुलस्त्य उवाच। ततो देवाः प्रयातास्ते विमानैर्बहुभिस्तदा। रामोप्यनुजगामाशु कुंभयोनेस्तपोवनम्
उक्तं भगवता तेन भूयोप्यागमनं क्रियाः। पूर्वमेव सभायां च यो मां द्रष्टुं समागतः
तदहं देवतादेशात्तत्कार्यार्थे महामुनिं। पश्यामि तं मुनिं गत्वा देवदानवपूजितम्
उपदेशं च मे तुष्टः स्वयं दास्यति सत्तमः। दुःखी येन पुनर्मर्त्ये न भवामि कदाचन
पिता दशरथो मह्यं कौसल्या जननी तथा। सूर्यवंशे समुत्पन्नस्तथाप्येवं सुदुःखितः
राज्यकाले वने वासो भार्यया चानुजेन च। हरणं चापि भार्याया रावणेन कृतं मम
असहायेन तु मया तीर्त्वा सागरमुत्तमम्। रुद्ध्वा तु तां पुरीं सर्वां कृत्वा तस्य कुलक्षयम्
दृष्टा सीता मया त्यक्ता देवानां तु पुरस्तदा। शुद्धां तां मां तथोचुस्ते मया सीता तथा गृहम्
समानीता प्रीतिमता लोकवाक्याद्विसर्जिता। वने वसति सा देवी पुरे चाहं वसामि वै
जातोहमुत्तमे वंशे उत्तमोहं धनुष्मताम्। उत्तमं दुःखमापन्नो हृदयं नैव भिद्यते
वज्रसारस्य सारेण धात्राहं निर्मितो ध्रुवम्। इदानीं ब्राह्मणादेशाद्भ्रमामि धरणीतले
तपः स्थितस्तु शूद्रोसौ मया पापो निपातितः। देववाक्यात्तु मे भूयः प्राणो मे हृदि संस्थितः