अग्रे तव महाबाहो किंकरः समुपस्थितः। भाषितं सुचिरं श्रुत्वा पुष्पकस्य नराधिप
अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत। धनुर्गृहीत्वा तूणौ च खड्गं चापि महाप्रभम्
निक्षिप्य नगरे वीरौ सौमित्रि भरतावुभौ। प्रायात्प्रतीचीं त्वरितो विचिन्वन्सुसमाहितः
उत्तरामगमत्पश्चाद्दिशं हिमवदाश्रिताम्। पूर्वामपि दिशां गत्वा तथाऽपश्यन्नराधिपः
सर्वां शुद्धसमाचारामादर्शमिव निर्मलाम्। ततो दिशं समाक्रामद्दक्षिणां रघुनंदनः
शैलस्य उत्तरे पार्श्वे ददर्श सुमहत्सरः। तस्मिन्सरसि तप्यंतं तापसं सुमहत्तपः
ददर्श राघवो भीमं लंबमानमधोमुखं। तमुपागम्य काकुत्स्थस्तप्यमानं तु तापसम्
उवाच राघवो वाक्यं धन्यस्त्वममरप्रभ। कस्यां योनौ तपोवृद्धिर्वर्तते दृढनिश्चय
अहं दाशरथी रामः पृच्छामि त्वां कुतूहलात्। कोर्थो व्यवसितस्तुभ्यं स्वर्गलोकोथ वेतरः
किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापस। ब्राह्मणो वासि भद्रं ते क्षत्रियो वाथ दुर्जयः
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यमुच्यताम्। तपः सत्यात्मकं नित्यं स्वर्गलोकपरिग्रहे
सात्विकं राजसं चैव तच्च सत्यात्मकं तपः। जगदुपकारहेतुर्हि सृष्टं तद्वै विरिंचिना
रौद्रं क्षत्रियतेजोजं तत्तु राजसमुच्यते। परस्योत्सादनार्थाय तच्चासुरमुदाहृतम्
अंगानि निह्नुते यो वा असृग्दिग्धानि भागशः। पंचाग्निंसाधयेद्वापि सिद्धिं वा मृत्युमेव वा
आसुरो ह्येष ते भावो न च मे त्वं द्विजो मतः। सत्यं ते वदतः सिद्धिरनृते नास्ति जीवितम्
तस्य तद्भाषितं श्रुत्वा रामस्याक्लिष्टकर्मणः। अवाक्शिरास्तथा भूतो वाक्यमेतदुवाच ह
स्वागतं ते नृपश्रेष्ठ चिराद्दृष्टोसि राघव। पुत्रभूतोस्मि ते चाहं पितृभूतोसि मेनघ
अथवा नैतदेवं हि सर्वेषां नृपतिः पिता। सत्वमर्च्योऽसि भो राजन्वयं ते विषये तपः
चरामस्तत्रभागोस्ति पूर्वं सृष्टः स्वयंभुवा। न धन्याः स्मो वयं राम धन्यस्त्वमसि पार्थिव
यस्य ते विषये ह्येवं सिद्धिमिच्छंति तापसाः। तपसा त्वं मदीयेन सिद्धिमाप्नुहि राघव
यदेतद्भवता प्रोक्तं योनौ कस्यां तु ते तपः। शूद्रयोनिप्रसूतोहं तप उग्रं समास्थितः
देवत्वं प्रार्थये राम स्वशरीरेण सुव्रत। न मिथ्याहं वदे भूप देवलोकजिगीषया
शूद्रं मां विद्धि काकुत्स्थ शंबूकं नाम नामतः। भाषतस्तस्य काकुत्स्थः खड्गं तु रुचिरप्रभं
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः। तस्मिन्शूद्रे हते देवाः सेन्द्राश्चाग्निपुरोगमाः
साधुसाध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः। पुष्पवृष्टिश्च महती देवानां सुसुगंधिनी
आकाशाद्विप्रमुक्ता तु राघवं सर्वतोकिरत्। सुप्रीताश्चाब्रुवन्देवा रामं वाक्यविदांवरम्
सुरकार्यमिदं सौम्य कृतं ते रघुनंदन। गृहाण च वरं राम यमिच्छसि महाव्रत
त्वत्कृतेन हि शूद्रोऽयं सशरीरोऽभ्यगाद्दिवं। देवानां भाषितं श्रुत्वा राघवः सुसमाहितः
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरंदरम्। यदि देवाः प्रसन्ना मे वरार्हो यदि वाप्यहम्
कर्मणा यदि मे प्रीता द्विजपुत्रः स जीवतु। वरमेतद्धि भवतां कांक्षितं परमं हि मे