पुरे वा राजशार्दूल कुरुते दुर्मतिर्नरः। क्षिप्रं स नरकं याति यावदाभूतसंप्लवम्
चतुर्थं तस्य पापस्य भागमश्नाति पार्थिवः। सत्त्वं पुरुषशार्दूल गच्छस्व विषयं स्वकम्
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर। एवं ते धर्मवृद्धिश्च बलस्य वर्धनं तथा
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवनम्। नारदेनैवमुक्तस्तु साश्चर्यो रघुनंदनः
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्। गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण
बालस्य च शरीरं त्वं तैलद्रोण्यां निधापय। गंधैश्च परमोदारैस्तैलैश्चैव सुगंधिभिः
यथा न शीर्यते बालस्तथा सौम्य विधीयताम्। यथा शरीरं गुप्तं स्याद्बालस्याक्लिष्टकर्मणः
विपत्तिः परिभेदो वा न भवेत्तत्तथा कुरु। तथा संदिश्य सौमित्रं लक्ष्मणं शुभलक्षणम्
मनसा पुष्पकं दध्यावागच्छेति महायशाः। इंगितं तत्तु विज्ञाय कामगं हेमभूषितम्
आजगाम मुहूर्तात्तु समीपं राघवस्य हि। सोब्रवीत्प्राञ्जलिर्वाक्यमहमस्मि नराधिप
अग्रे तव महाबाहो किंकरः समुपस्थितः। भाषितं सुचिरं श्रुत्वा पुष्पकस्य नराधिप
अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत। धनुर्गृहीत्वा तूणौ च खड्गं चापि महाप्रभम्
निक्षिप्य नगरे वीरौ सौमित्रि भरतावुभौ। प्रायात्प्रतीचीं त्वरितो विचिन्वन्सुसमाहितः
उत्तरामगमत्पश्चाद्दिशं हिमवदाश्रिताम्। पूर्वामपि दिशां गत्वा तथाऽपश्यन्नराधिपः
सर्वां शुद्धसमाचारामादर्शमिव निर्मलाम्। ततो दिशं समाक्रामद्दक्षिणां रघुनंदनः
शैलस्य उत्तरे पार्श्वे ददर्श सुमहत्सरः। तस्मिन्सरसि तप्यंतं तापसं सुमहत्तपः
ददर्श राघवो भीमं लंबमानमधोमुखं। तमुपागम्य काकुत्स्थस्तप्यमानं तु तापसम्
उवाच राघवो वाक्यं धन्यस्त्वममरप्रभ। कस्यां योनौ तपोवृद्धिर्वर्तते दृढनिश्चय
अहं दाशरथी रामः पृच्छामि त्वां कुतूहलात्। कोर्थो व्यवसितस्तुभ्यं स्वर्गलोकोथ वेतरः
किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापस। ब्राह्मणो वासि भद्रं ते क्षत्रियो वाथ दुर्जयः
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यमुच्यताम्। तपः सत्यात्मकं नित्यं स्वर्गलोकपरिग्रहे
सात्विकं राजसं चैव तच्च सत्यात्मकं तपः। जगदुपकारहेतुर्हि सृष्टं तद्वै विरिंचिना
रौद्रं क्षत्रियतेजोजं तत्तु राजसमुच्यते। परस्योत्सादनार्थाय तच्चासुरमुदाहृतम्
अंगानि निह्नुते यो वा असृग्दिग्धानि भागशः। पंचाग्निंसाधयेद्वापि सिद्धिं वा मृत्युमेव वा
आसुरो ह्येष ते भावो न च मे त्वं द्विजो मतः। सत्यं ते वदतः सिद्धिरनृते नास्ति जीवितम्
तस्य तद्भाषितं श्रुत्वा रामस्याक्लिष्टकर्मणः। अवाक्शिरास्तथा भूतो वाक्यमेतदुवाच ह
स्वागतं ते नृपश्रेष्ठ चिराद्दृष्टोसि राघव। पुत्रभूतोस्मि ते चाहं पितृभूतोसि मेनघ
अथवा नैतदेवं हि सर्वेषां नृपतिः पिता। सत्वमर्च्योऽसि भो राजन्वयं ते विषये तपः
चरामस्तत्रभागोस्ति पूर्वं सृष्टः स्वयंभुवा। न धन्याः स्मो वयं राम धन्यस्त्वमसि पार्थिव
यस्य ते विषये ह्येवं सिद्धिमिच्छंति तापसाः। तपसा त्वं मदीयेन सिद्धिमाप्नुहि राघव