वसिष्ठस्याग्रतः स्थित्वा राज्ञो दीनस्य नारदः। प्रत्युवाच श्रुतं वाक्यमृषीणां सन्निधौ तदा
शृणु राम यथाकालं प्राप्तो वै बालसंक्षयः। पुरा कृतयुगे राम सर्वत्र ब्राह्मणोत्तरम्
अब्राह्मणो न वै कश्चित्तपस्तपति राघव। अमृत्यवस्तदा सर्वे जायंते चिरजीविनः
त्रेतायुगे पुनः प्राप्ते ब्रह्मक्षत्रमनुत्तमम्। अधर्मो द्वापरे तेषां वैश्यान्शूद्रांस्तथाविशत्
एवं निरंतरं जुष्टमुद्भूतमनृतं पुनः। अधर्मस्य त्रयः पादा एको धर्मस्य चागतः
ततः पूर्वे भृशं त्रस्ता वर्णा ब्राह्मणपूर्वकाः। भूयः पादस्तु धर्मस्य द्वितीयः समपद्यत
तस्मिन्द्वापरसंज्ञे तु तपो वैश्यं समाविशत्। युगत्रयस्य वैधर्म्यं धर्मस्य प्रतितिष्ठति
कलिसंज्ञे ततः प्राप्ते वर्तमाने युगेंतिमे। अधर्मश्चानृतं चैव ववृधाते नरर्षभ1.35.
भविता शूद्रयोन्यां तु तपश्चर्या कलौ युगे। स ते विषयपर्यंते राजन्नुग्रतरं तपः
शूद्रस्तपति दुर्बुद्धिस्तेन बालवधः कृतः। यस्याधर्ममकार्यं वा विषये पार्थिवस्य हि
पुरे वा राजशार्दूल कुरुते दुर्मतिर्नरः। क्षिप्रं स नरकं याति यावदाभूतसंप्लवम्
चतुर्थं तस्य पापस्य भागमश्नाति पार्थिवः। सत्त्वं पुरुषशार्दूल गच्छस्व विषयं स्वकम्
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर। एवं ते धर्मवृद्धिश्च बलस्य वर्धनं तथा
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवनम्। नारदेनैवमुक्तस्तु साश्चर्यो रघुनंदनः
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्। गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण
बालस्य च शरीरं त्वं तैलद्रोण्यां निधापय। गंधैश्च परमोदारैस्तैलैश्चैव सुगंधिभिः
यथा न शीर्यते बालस्तथा सौम्य विधीयताम्। यथा शरीरं गुप्तं स्याद्बालस्याक्लिष्टकर्मणः
विपत्तिः परिभेदो वा न भवेत्तत्तथा कुरु। तथा संदिश्य सौमित्रं लक्ष्मणं शुभलक्षणम्
मनसा पुष्पकं दध्यावागच्छेति महायशाः। इंगितं तत्तु विज्ञाय कामगं हेमभूषितम्
आजगाम मुहूर्तात्तु समीपं राघवस्य हि। सोब्रवीत्प्राञ्जलिर्वाक्यमहमस्मि नराधिप
अग्रे तव महाबाहो किंकरः समुपस्थितः। भाषितं सुचिरं श्रुत्वा पुष्पकस्य नराधिप
अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत। धनुर्गृहीत्वा तूणौ च खड्गं चापि महाप्रभम्
निक्षिप्य नगरे वीरौ सौमित्रि भरतावुभौ। प्रायात्प्रतीचीं त्वरितो विचिन्वन्सुसमाहितः
उत्तरामगमत्पश्चाद्दिशं हिमवदाश्रिताम्। पूर्वामपि दिशां गत्वा तथाऽपश्यन्नराधिपः
सर्वां शुद्धसमाचारामादर्शमिव निर्मलाम्। ततो दिशं समाक्रामद्दक्षिणां रघुनंदनः
शैलस्य उत्तरे पार्श्वे ददर्श सुमहत्सरः। तस्मिन्सरसि तप्यंतं तापसं सुमहत्तपः
ददर्श राघवो भीमं लंबमानमधोमुखं। तमुपागम्य काकुत्स्थस्तप्यमानं तु तापसम्
उवाच राघवो वाक्यं धन्यस्त्वममरप्रभ। कस्यां योनौ तपोवृद्धिर्वर्तते दृढनिश्चय
अहं दाशरथी रामः पृच्छामि त्वां कुतूहलात्। कोर्थो व्यवसितस्तुभ्यं स्वर्गलोकोथ वेतरः
किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापस। ब्राह्मणो वासि भद्रं ते क्षत्रियो वाथ दुर्जयः