हृता सीतातिपापेन रावणेन दुरात्मना। पत्नी ते रघुशार्दूल तस्या एवौजसा हतः
असहायेन चैकेन त्वया राम रणे हतः। यादृशं ते कृतं कर्म तस्य कर्ता न विद्यते
इह संभाषितुं प्राप्ता दृष्ट्वा पूताः स्म सांप्रतम्। दर्शनात्तव राजेंद्र सर्वे जातास्तपस्विनः
रावणस्य वधात्तेद्य कृतमश्रुप्रमार्जनम्। दत्वा पुण्यामिमां वीर जगत्यभयदक्षिणाम्
दिष्ट्या वर्धसि काकुत्स्थ जयेनामितविक्रम। दृष्टस्संभाषितश्चासि यास्यामश्चाश्रमान्स्वकान्
अरण्यं ते प्रविष्टस्य मया चेंद्रशरासनम्। अर्पितं चाक्षयौ तूणौ कवचं च परंतप
भूयोप्यागमनं कार्यमाश्रमे मे रघूद्वह। एवमुक्त्वा तु ते सर्वे मुनयोंतर्हिताऽभवन्
गतेषु मुनिमुख्येषु रामो धर्मभृतां वरः। चिंतयामास तत्कार्यं किं स्यान्मे मुनिनोदितम्
भूयोप्यागमनं कार्यमाश्रमे रघुनंदन। अवश्यमेव गंतव्यं मयाऽगस्त्यस्य सन्निधौ
श्रोतव्यं देवगुह्यं तु कार्यमन्यच्च यद्वदेत्। एवं चिंतयतस्तस्य रामस्यामिततेजसः
करिष्ये नियतं धर्मं धर्मो हि परमा गतिः। सुतवर्षसहस्राणि दश राज्यमकारयत्
ददतो जुह्वतश्चैव जग्मुस्तान्येकवर्षवत्। प्रजाः पालयतस्तस्य राघवस्य महात्मनः
एतस्मिन्नेव दिवसे वृद्धो जानपदो द्विजः। मृतं पुत्रमुपादाय रामद्वारमुपागतः
उवाच विविधं वाक्यं स्नेहाक्षरसमन्वितम्। दुष्कृतं किंतु मे पुत्र पूर्वदेहांतरे कृतम्
त्वामेकपुत्रं यदहं पश्यामि निधनं गतम्। अप्राप्तयौवनं बालं पंचवर्षं गतायुषम्
अकाले कालमापन्नं दुःखाय मम पुत्रक। अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम्
रामस्य दुष्कृतं व्यक्तं येन ते मृत्युरागतः। बालवध्या ब्रह्मवध्या स्त्रीवध्या चैव राघवम्
प्रवेक्ष्यति न सन्देहः सभार्ये तु मृते मयि। शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्
निवार्य तं द्विजं रामो वसिष्ठं वाक्यमब्रवीत्। किं मयाद्य च कर्तव्यं कार्यमेवं विधे स्थिते
प्राणानहं जुहोम्यग्नौ पर्वताद्वा पतेह्यहम्। कथं शुद्धिमहं यामि श्रुत्वा ब्राह्मणभाषितम्
वसिष्ठस्याग्रतः स्थित्वा राज्ञो दीनस्य नारदः। प्रत्युवाच श्रुतं वाक्यमृषीणां सन्निधौ तदा
शृणु राम यथाकालं प्राप्तो वै बालसंक्षयः। पुरा कृतयुगे राम सर्वत्र ब्राह्मणोत्तरम्
अब्राह्मणो न वै कश्चित्तपस्तपति राघव। अमृत्यवस्तदा सर्वे जायंते चिरजीविनः
त्रेतायुगे पुनः प्राप्ते ब्रह्मक्षत्रमनुत्तमम्। अधर्मो द्वापरे तेषां वैश्यान्शूद्रांस्तथाविशत्
एवं निरंतरं जुष्टमुद्भूतमनृतं पुनः। अधर्मस्य त्रयः पादा एको धर्मस्य चागतः
ततः पूर्वे भृशं त्रस्ता वर्णा ब्राह्मणपूर्वकाः। भूयः पादस्तु धर्मस्य द्वितीयः समपद्यत
तस्मिन्द्वापरसंज्ञे तु तपो वैश्यं समाविशत्। युगत्रयस्य वैधर्म्यं धर्मस्य प्रतितिष्ठति
कलिसंज्ञे ततः प्राप्ते वर्तमाने युगेंतिमे। अधर्मश्चानृतं चैव ववृधाते नरर्षभ1.35.
भविता शूद्रयोन्यां तु तपश्चर्या कलौ युगे। स ते विषयपर्यंते राजन्नुग्रतरं तपः
शूद्रस्तपति दुर्बुद्धिस्तेन बालवधः कृतः। यस्याधर्ममकार्यं वा विषये पार्थिवस्य हि