तदहं श्रोतुमिच्छामि पृथिव्यां ये च पार्थिवाः। अन्नदानाद्दिवं प्राप्ताः क्रतवश्चान्नमूलकाः
कथं तस्य मतिर्नष्टा श्वेतस्य च महात्मनः। न दत्तं तेनान्नदानमृषिभिर्वा न दर्शितम्
अहो माहात्म्यमन्नस्य इह दत्तस्य यत्फलम्। परत्र भुज्यते पुंभिः स्वर्गश्चाक्षयतां व्रजेत्
अन्नदानं परं विप्राः कीर्तयंति सदोत्थिताः। अन्नदानात्सुरेद्रेण त्रैलोक्यमिह भुज्यते
शतक्रतुरिति प्रोक्तः सर्वैरेव द्विजोत्तमैः। तेनावस्थां तत्सदृशीं प्राप्तवांस्त्रिदशेश्वरः
दानदेवगतः स्वर्गं त्वत्तः सर्वं श्रुतं मया। अपरं च पुरावृत्तं निवृत्तं यदि कर्हिचित्
भूयोपि श्रोतुमिच्छामि तन्मे वद महामते। पुलस्त्य उवाच। एतदाख्यानकं पूर्वमगस्त्येन महात्मना
रामाय कथितं राजंस्तत्ते वक्ष्यामि सांप्रतम्। भीष्म उवाच। कस्मिन्वंशे समुत्पन्नो रामोऽसौ नृपसत्तमः
यस्यागस्त्येन कथितश्चेतिहासः पुरातनः। पुलस्त्य उवाच। रघुवंशे समुत्पन्नो रामो नाम महाबलः
देवकार्यं कृतं तेन लंकायां रावणो हतः। पृथिवीं राज्यसंस्थस्य ऋषयोऽभ्यागता गृहे
प्राप्तास्ते तु महात्मानो राघवस्य निवेशनम्। प्रतीहारस्ततो राममगस्त्यवचनाद्द्रुतम्
आवेदयामास ऋषीन्प्राप्तास्तांश्च त्वरान्वितः। दृष्ट्वा रामं द्वारपालः पूर्णचंद्रमिवोदितम्
कौसल्यासुत भद्रं ते सुप्रभाताद्य शर्वरी। द्रष्टुमभ्युदयं तेद्य सम्प्राप्तो रघुनंदन
अगस्त्यो मुनिभिः सार्धं द्वारि तिष्ठति ते नृप। श्रुत्वा प्राप्तान्मुनीन्रामस्तान्भास्करसमद्युतीन्
प्राह वाक्यं तदा द्वास्थं प्रवेशय त्वरान्वितः। किमर्थं तु त्वया द्वारि निरुद्धा मुनिसत्तमाः
रामवाक्यान्मुनींस्तांस्तु प्रावेशयद्यथासुखम्। दृष्ट्वा तु तान्मुनींन्प्राप्तान्प्रत्युवाच कृतांजलि
रामोऽभिवाद्य प्रणत आसनेषु न्यवेशयत्। ते तु कांचनचित्रेषु स्वास्तीर्णेषु सुखेषु च
कुशोत्तरेषु चासीनाः समंतान्मुनिपुंगवाः। पाद्यमाचमनीयं च ददौ चार्घ्यं पुरोहितः
रामेण कुशलं पृष्टा ऋषयः सर्व एव ते। महर्षयो वेदविद इदं वचनमब्रुवन्
कुशलं ते महाबाहो सर्वत्र रघुनंदन। त्वां तु दिष्ट्या कुशलिनं पश्यामो हतविद्विषम्
हृता सीतातिपापेन रावणेन दुरात्मना। पत्नी ते रघुशार्दूल तस्या एवौजसा हतः
असहायेन चैकेन त्वया राम रणे हतः। यादृशं ते कृतं कर्म तस्य कर्ता न विद्यते
इह संभाषितुं प्राप्ता दृष्ट्वा पूताः स्म सांप्रतम्। दर्शनात्तव राजेंद्र सर्वे जातास्तपस्विनः
रावणस्य वधात्तेद्य कृतमश्रुप्रमार्जनम्। दत्वा पुण्यामिमां वीर जगत्यभयदक्षिणाम्
दिष्ट्या वर्धसि काकुत्स्थ जयेनामितविक्रम। दृष्टस्संभाषितश्चासि यास्यामश्चाश्रमान्स्वकान्
अरण्यं ते प्रविष्टस्य मया चेंद्रशरासनम्। अर्पितं चाक्षयौ तूणौ कवचं च परंतप
भूयोप्यागमनं कार्यमाश्रमे मे रघूद्वह। एवमुक्त्वा तु ते सर्वे मुनयोंतर्हिताऽभवन्
गतेषु मुनिमुख्येषु रामो धर्मभृतां वरः। चिंतयामास तत्कार्यं किं स्यान्मे मुनिनोदितम्
भूयोप्यागमनं कार्यमाश्रमे रघुनंदन। अवश्यमेव गंतव्यं मयाऽगस्त्यस्य सन्निधौ
श्रोतव्यं देवगुह्यं तु कार्यमन्यच्च यद्वदेत्। एवं चिंतयतस्तस्य रामस्यामिततेजसः