मोक्तिकैश्चापि सोमस्य शोभां वज्रैर्दिवाकरे। ग्रहाणां चैव सर्वेषां सुवर्णानि च दापयेत्
स्वर्णात्सप्तगुणं रौप्यं रौप्यात्ताम्रं तथाविधम्। ततः सप्तगुणं कार्यं कांस्यं सप्तगुणं तथा
कांस्यात्सप्तगुणं कार्यं त्रपु चैव नराधिप। त्रपुसप्तगुणं सीसं सीसाल्लोहं च कारयेत्
सप्तद्वीपास्समुद्राश्च सप्त वै कुलपर्वताः। अनया संख्यया कृत्वा निपुणैः शिल्पिभिस्ततः
पादपादीनि भूतानि राजतान्येव कारयेत्। आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत्
वृक्षान्वनस्पतीन्गुल्मतृणपर्णानि वीरुधः। सर्वं प्रकल्प्य विधिवत्तीर्थे देयं विचक्षणैः
कुरुक्षेत्रे गयायां च प्रयागेऽमरकंटके। द्वारवत्यां प्रभासे च गंगाद्वारे च पुष्करे
तीर्थेष्वेतेषु वै देयं ग्रहणे शशिसूर्ययोः। दिनच्छिद्रेषु सर्वेषु अयने दक्षिणोत्तरे
व्यतीपाते बहुगुणं विषुवे च विशेषतः। दातव्यमेतद्राजेंद्र विचारं नैव कारयेत्1.34.
शालाग्निहोत्रिणं कृत्वा सुरूपं च गुणान्वितम्। सपत्नीकं च संपूज्य भूषयित्वा च भूषणैः
पुरोहितं मुख्यतमं कृत्वाऽन्ये च तथा द्विजाः। चतुर्विंशद्गुणोपेताः सपत्नीका निमंत्रिताः
अंगुलीयानि च तथा कर्णवेष्टं च दापयेत्। एवंविधांस्तु तान्पूज्य तेषामग्रे सुसंस्थितः
अष्टांगप्रणिपातेन प्रणम्य च पुनःपुन।ः॥ पुरोहिताय पुरतः कृत्वा वै करसंपुटम्
यूयं वै ब्राह्मणाः प्रीता मैत्रत्वेनानुगृह्णत। सौमुख्येन द्विजश्रेष्ठा भूयः पूततरस्त्वहः
भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः। ब्रह्मांडेन तु दत्तेन तोषं यातु जनार्दनः
पिनाकपाणिर्भगवान्शक्रश्च त्रिदशेश्वरः। एते तोषं समायांतु अनुध्यानाद्द्विजोत्तमाः
एवं स्तुत्वा ततो राजा ब्राह्मणान्वेदपारगान्। ब्रह्माण्डं तु गुरोः प्रादात्सविधानं पुनः क्षणात्
सर्वकामैस्ततस्तृप्तो ययौ स्वर्गं नराधिपः। तेनैव गुरुणा तच्च विभक्तं ब्राह्मणैः सह
दत्तं तेनापि चान्येभ्यो ब्रह्मांडं च नराधिप। ब्रह्मांडे भूमिदाने च ग्राही चैको न वै भवेत्
गृह्णन्दोषमवाप्नोति ब्रह्महत्यां न संशयः। सर्वेषां चैव प्रत्यक्षं दातव्यं परिकीर्त्य वै
दीयमानं च पश्यंति तेपि पूता भवंति हि। दर्शनादेव ते मुक्ता भवंन्त्येव न संशयः
या भीमद्वादशी प्रोक्ता स्वर्णं तोयं मृगाजिनं। एतानि कृत्वा पश्यन्तु दृष्टैरेतैः क्रियाफलं
अयत्नादेव लभ्येत कर्तुश्चैव सलोकता। सदा गावः प्रणम्याश्च मंत्रेणानेन पार्थिव
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च। नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः
मंत्रस्य चास्य स्मरणाद्गोदानफलमाप्नुयात्। तस्मात्त्वमपि राजेंद्र पुष्करे तीर्थ उत्तमे
कार्तिक्यां तु विशेषेण गोदानफलमाप्स्यसि। यत्किंचिद्विद्यते पापं स्त्रियो वा पुरुषस्य वा
पुष्करे स्नानमात्रेण तदशेषं प्रणश्यति। पृथिव्यां यानि तीर्थानि आसमुद्रात्तु भारत
पुष्करे तान्युपायांति कार्तिक्यां तु विशेषतः
भीष्म उवाच। उक्तं भगवता सर्वं पुराणाश्रयसंयुतं। तथा श्वेतेन ब्रह्मांडं गुरवे प्रतिपादितं
श्रुत्वैतत्कौतुकं जातं यथा तेनास्थिलेहनं। कृतं क्षुधापनोदार्थे अन्नदानाद्विना द्विज