स्त्रीधर्मेण तु संप्राप्ता क्षयहेतु तदानघ । तया चैव कृतं सर्वं ब्राह्मणानां च भोजनम्
न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मना । प्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति । तेन पापेन सा जाता शुनी स्वगृहचारिणी । बलीवर्दस्त्वयं जातः कर्मणानेन सुव्रत
उग्रजन्मोवाच- व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रत । ब्रूहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम
ऋषिरुवाच- मासे भाद्रपदे शुक्ले जायते ऋषिपंचमी । रजसा विकृतं पापं नश्यते करणाद्यतः
पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनी । नद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा
गोमयं मंडलं कुर्यात्कुंभं तत्रैव विन्यसेत् । तस्योपरि न्यसेत्पात्रमृषिधान्येन पूरितम् 6.77.
यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथा । स्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः
आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैः । नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम्
एकभक्तेन कर्तव्यमृषीणामर्चनं तदा । पूजयेत्परया भक्त्या मंत्रेण विधिपूर्वकम्
निर्वापं सघृतं देयं दक्षिणासंयुतं तदा । देयं विप्राय विधिवदृषीणां प्रीयतां प्रति
कथां श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणाम् । धूपं दीपं च नैवेद्यमर्घ्यं दद्यात्पृथक्पृथक्
ऋषयः संतु मे नित्यं व्रतसंपूर्णकारिणः । पूजां गृह्णंतु मद्दत्तां ऋषिभ्योऽस्तु नमोनमः
पुलस्त्यः पुलहश्चैव क्रतुः प्राचेतसस्तथा । वसिष्ठमरिचात्रेया अर्घं गृह्णंतु वो नमः
एवं पूजा प्रकर्त्तव्या धूपैर्दीपैर्मनोरमैः । पितॄणां जायते मुक्तिः कृतस्यास्य प्रभावतः
पूर्वकर्मविपाकेन रजसा दोषभावतः । कृतं ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः
तद्व्रतं च कृतं तेन मुक्त्यर्थं पितृहेतवे । ते गता मुक्तिमार्गेण आशीर्वादपरायणाः
ऋषिपंचमीव्रतं पुण्यं विप्राय परिकीर्तितम् । ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः पुण्यभागिनः
ये कुर्वंति नरश्रेष्ठ ऋषिव्रतमनुत्तमम् । भुक्त्वात्र भोगान्विपुलान्यांति विष्णोः पदं तु ते
इतिश्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारद। संवादे ऋषिपंचमीव्रतंनाम सप्तसप्ततितमोऽध्यायः
पार्वत्युवाच- गंगायाश्चैव माहात्म्यं पुनर्वद महामते । यच्छ्रुत्वा मुनयः सर्वे वीतरागाः पुनः पुनः
माहात्म्यं कीदृशं चैव तस्याः सर्वेश्वर प्रभो । उत्पत्तिश्च श्रुता पूर्वं महिमा न श्रुतो मया । त्वमाद्यः सर्वभूतानां त्वं देवश्च सनातनः
महादेव उवाच- बृहस्पतिसमं बुद्ध्या शक्रतुल्यपराक्रमम् । शरतल्पगतं भीष्मं ऋषयो द्रष्टुमाययुः
अत्रिर्वसिष्ठश्च भृगुः पुलस्त्यः पुलहः क्रतुः । अंगिरावगौतमोऽगस्त्यः सुमतिस्त्वापुरात्मवान्
विश्वामित्रः स्थूलशिराः सर्वज्ञः प्रमथाधिपः । रैभ्यो बृहस्पतिर्व्यासः पावनः कश्यपो ध्रुवः
दुर्वासा जमदग्निश्च मार्कंडेयोऽथ गालवः । उशनाथ भरद्वाजः क्रतुरास्तीक एव च
स्थूलाक्षः सर्वलोकाक्षः कण्वो मेधातिथिः कुशः । नारदः पर्वतश्चैव सुधन्वा च्यवनो द्विजः
मतिभूर्भुवनो धौम्यः शतानंदोकृतव्रणः । जामदग्न्योऽथ रामश्च ऋचीकश्चैवमादयः
तान्प्रणम्य यथान्यायं धर्मपुत्रः सहानुजः । पूजयामास विधिवज्जगत्पूज्यांस्तु तेजसः
ते पूजिता महात्मानः सुखासीनास्तपोधनाः । भीष्माश्रिताः कथाश्चक्रुर्दिव्यधर्माश्रितास्तथा