ब्रह्मांडोदरवर्तीनि यानि भूतानि पार्थिव। तानि दत्तानि वै तेन समासात्कथितं तव
यद्यज्ञैर्यजतो राजन्समाप्तवरदक्षिणैः। सर्वं फलं तत्खंडस्य ब्रह्मांडस्य विशेषतः
यः पुनः सकलं चेदं ब्रह्मांडं प्रदिशेन्नरः। तेन जप्तं हुतं दत्तं पठितं कीर्तितं भवेत्
राजोवाच॥ विधिं ब्रह्मांडदानस्य कृत्वा तत्मोक्षभाग्भवेत्। कालं देशं विप्रतीर्थं सर्वं त्वं वद मेनघ
कृतेन येन सर्वस्य फलभागी भवाम्यहम्। कुत्सितस्यास्य भावस्य मोक्षस्स्यादचिराच्च मे
वसिष्ठ उवाच॥ एवं श्रुत्वा ततो राजन्पुरोधास्तस्य स द्विजः। ब्रह्मांडं कारयामास सौवर्णं सर्वधातुभिः
युतं निष्कसहस्रेण पद्मं तत्र ह्यकल्पयत्॥ तत्र ब्रह्मा तस्य मध्येपद्मरागैरलंकृतः
सावित्र्या चैव गायत्र्या ऋषिभिर्मुनिभिः सह। नारदाद्याः सुताः सर्व इन्द्राद्याश्च दिवौकसः
सौवर्णविग्रहाः सर्वे ब्रह्मणस्तु पुरःसराः। वराहरूपी भगवान्लक्ष्म्या सह सनातनः
नीलं मरकतं चैव भूषायां तस्य कारयेत्। गोमेदैस्तस्य वै शोभां कारयेत च बुद्धिमान्
मोक्तिकैश्चापि सोमस्य शोभां वज्रैर्दिवाकरे। ग्रहाणां चैव सर्वेषां सुवर्णानि च दापयेत्
स्वर्णात्सप्तगुणं रौप्यं रौप्यात्ताम्रं तथाविधम्। ततः सप्तगुणं कार्यं कांस्यं सप्तगुणं तथा
कांस्यात्सप्तगुणं कार्यं त्रपु चैव नराधिप। त्रपुसप्तगुणं सीसं सीसाल्लोहं च कारयेत्
सप्तद्वीपास्समुद्राश्च सप्त वै कुलपर्वताः। अनया संख्यया कृत्वा निपुणैः शिल्पिभिस्ततः
पादपादीनि भूतानि राजतान्येव कारयेत्। आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत्
वृक्षान्वनस्पतीन्गुल्मतृणपर्णानि वीरुधः। सर्वं प्रकल्प्य विधिवत्तीर्थे देयं विचक्षणैः
कुरुक्षेत्रे गयायां च प्रयागेऽमरकंटके। द्वारवत्यां प्रभासे च गंगाद्वारे च पुष्करे
तीर्थेष्वेतेषु वै देयं ग्रहणे शशिसूर्ययोः। दिनच्छिद्रेषु सर्वेषु अयने दक्षिणोत्तरे
व्यतीपाते बहुगुणं विषुवे च विशेषतः। दातव्यमेतद्राजेंद्र विचारं नैव कारयेत्1.34.
शालाग्निहोत्रिणं कृत्वा सुरूपं च गुणान्वितम्। सपत्नीकं च संपूज्य भूषयित्वा च भूषणैः
पुरोहितं मुख्यतमं कृत्वाऽन्ये च तथा द्विजाः। चतुर्विंशद्गुणोपेताः सपत्नीका निमंत्रिताः
अंगुलीयानि च तथा कर्णवेष्टं च दापयेत्। एवंविधांस्तु तान्पूज्य तेषामग्रे सुसंस्थितः
अष्टांगप्रणिपातेन प्रणम्य च पुनःपुन।ः॥ पुरोहिताय पुरतः कृत्वा वै करसंपुटम्
यूयं वै ब्राह्मणाः प्रीता मैत्रत्वेनानुगृह्णत। सौमुख्येन द्विजश्रेष्ठा भूयः पूततरस्त्वहः
भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः। ब्रह्मांडेन तु दत्तेन तोषं यातु जनार्दनः
पिनाकपाणिर्भगवान्शक्रश्च त्रिदशेश्वरः। एते तोषं समायांतु अनुध्यानाद्द्विजोत्तमाः
एवं स्तुत्वा ततो राजा ब्राह्मणान्वेदपारगान्। ब्रह्माण्डं तु गुरोः प्रादात्सविधानं पुनः क्षणात्
सर्वकामैस्ततस्तृप्तो ययौ स्वर्गं नराधिपः। तेनैव गुरुणा तच्च विभक्तं ब्राह्मणैः सह
दत्तं तेनापि चान्येभ्यो ब्रह्मांडं च नराधिप। ब्रह्मांडे भूमिदाने च ग्राही चैको न वै भवेत्
गृह्णन्दोषमवाप्नोति ब्रह्महत्यां न संशयः। सर्वेषां चैव प्रत्यक्षं दातव्यं परिकीर्त्य वै