तन्न दत्तं त्वया राजन्स्तोकं मत्वा नराधिपः। श्वेत उवाच॥ अदत्तस्य च संभूतिर्यथा भवति मे गुरो
वसिष्ठ त्वत्प्रसादेन तन्ममाचक्ष्व पृच्छतः। वसिष्ठ उवाच॥ अस्त्येकं कारणं येन जायते नात्र संशयः
तच्छृणुष्व नरव्याघ्र कथ्यमानं मया तव। आसीद्राजा पुरा कल्पे विनीताश्वेति कीर्तितः
स चाश्वमेधमारेभे यज्ञं कर्तुं वरं नृपः। यजनांते द्विजेंद्रेभ्यो दत्तं गोऽश्वादि याचितम्
नान्नं दत्तं तेन किंचित्स्वल्पं मत्वा यथा त्वया। ततः कालेन महता मृतोऽसौ जाह्नवी तटे
मायापुर्यां विनीताश्वः सार्वभौमोऽभवन्नृपः। स्वर्गं च गतवान्सोऽपि यथा राजा भवान्प्रभो
असावपि क्षुधाविष्ट एवमेवागतोऽभवत्। मर्त्यलोके नदीतीरे गंगायां नीलपर्वते
विमानेनार्कवर्णेन भास्वता देववन्नृप। ददर्श तत्स्वकं देहं तथा स्वं च पुरोहितम्
होतारं ब्राह्मणं नाम यजंतं जाह्नवी तटे। तं दृष्ट्वाऽसावपि पुनः पर्यपृच्छदिद्वजोत्तमम्
क्षुधायाः कारणं राजन्स होता तमुवाच ह। तिलधेनुं च वै राजन्घृतधेनुं च सत्तम
जलधेनुं च धेनुं च रसधेनुं च पार्थिव। देहि शीघ्रं येन भवांस्तृट्क्षुधावर्जितो दिवि
रमे तयावदादित्यस्तपते दिवि चंद्रमाः। एवमुक्तस्ततो राजा तं पुनः पृष्टवानिदम्
तिलधेनुस्थितिं ब्रूहि तथा कृत्वा ददाम्यहम्। पुरोहित उवाच॥ विधानं तिलधेनोस्तु तच्छृणुष्व नराधिप
धेनुस्स्यात्षोडशाढक्य चतुर्भिर्वत्सको भवेत्। इक्षुदंडमयाः पादा दन्ताः पुष्पमयाः शुभाः
नासा गंधमयी तस्या जिह्वा गुडमयी तथा। पुच्छे स्रक्कल्पनीयास्याद्घंटाभरणभूषिता
ईदृशीं कल्पयित्वा तु स्वर्णशृंगीं तु कल्पयेत्। रौप्यखुरां कांस्यदोहां पूर्वधेनुविधानतः
कृत्वा तां ब्राह्मणायाशु दापयेन्मंत्रतो नृप। स्थितां कृष्णाजिने धेनुं वासोभिर्गोपितां शुभाम्
सूत्रेणासूत्रितां कृत्वा पंचरत्नसमन्विताम्। सर्वौषधिसमायुक्तां मंत्रपूतां तु दापयेत्
अन्नम्मे जायतां सद्यः पानं सर्वरसास्तथा। कामान्संपादयास्माकं तिलधेनो द्विजेर्पिता
गृह्णामि देवि त्वां भक्त्या कुटुम्बार्थे विशेषतः। देहि कामान्वितान्सर्वांस्तिलधेनो नमोस्तु ते
एवं विधानतो दत्ता तिलधेनुर्नृपोत्तम। सर्वकामसमावाप्तिं कुरुते नात्र संशयः
जलधेनुस्तथैवेह कुंभैरेव प्रकल्पिता। दत्ता तु विधिना कामान्सद्यः सर्वान्प्रयच्छति
धेनुशतं तथा दत्तं पूर्णिमा नियमेन हि। सावित्री इव वै स्वर्गे सर्वकामप्रदा भवेत्
घृतधेनुस्तथा दत्ता विधानेन विचक्षणैः। सर्वकामसमावाप्तिं कुरुते कांतिदा भवेत्
रसधेनुस्तथा दत्ता कार्तिके मासि पार्थिव। सर्वान्कामान्प्रयच्छेत्तु नित्यं सा गतिदा भवेत्
एतत्ते सर्वमाख्यातं समासाद्बहुविस्तरम्। अपारं फलमुद्दिष्टं ब्रह्मणा सर्वकर्मणा
तृष्णया क्षुधया यद्वा पीडितो राजसत्तम। तद्दानं कार्तिके देयं पूर्वं देहि नराधिप
ब्रह्मांडं सर्वसंपन्नं भूतरत्नौषधीयुतम्। देवदानवयक्षैश्च युक्तमेतत्सदा विभो
एतत्तु सकलं कृत्वा सर्वतो रजतान्वितम्। सुरत्नसूर्यचंद्राढ्यं कार्तिके द्वादशी दिने
अथवा पंचदश्यां तु कार्तिकस्यैव नान्यतः। पुरोहिताय गुरवे दापयेद्भक्तिमान्नरः