आसीदिलावृते वर्षे श्वेतो राजा महाबलः। स महीं सकलां जिग्ये सप्तद्वीपां सपत्तनाम्
ब्रह्मपुत्रो वसिष्ठश्च आसीत्तस्य पुरोहितः। स कदाचिन्नृपश्रेष्ठो जित्वा परमधार्मिकः
पुरोहितमुवाचेदं वसिष्ठं जपतां वरम्। श्वेत उवाच॥ भगवन्नश्वमेधानां सहस्रं कर्तुमुत्सहे
सुवर्णरूप्यरत्नानां दानं कर्तुं द्विजातिषु। पृथिव्यामन्नदानं तु दातुन्नेच्छामि वै गुरो
नान्नेन किंचिद्दत्तेन दत्ते होम्नि द्विजे प्रभो। न किंचिद्वस्त्विति ज्ञात्वा न दत्तं तत्कदाचन
रक्तवस्त्रमलंकारं ग्रामांश्च नगराणि च। अददाद्ब्राह्मणेभ्योऽसौ श्वेतो राजा महायशाः
नान्नं जलं तेन राज्ञा दत्तमासीत्कदाचन। ततोऽश्वमेधैर्बहुभिर्यज्वासौ नृपसत्तम
स्वर्गं गतः पुण्यजितं तपस्तप्त्वार्बुदत्रयम्। ब्राह्मीं सलोकतां प्राप्तः सर्वालंकारभूषितः
नृत्यंत्यप्सरसस्तत्र गायंते सिद्धयोषितः। तुंबुरुर्नारदस्तत्र द्वावप्यनुगतौ सदा
अगायेतां महाप्राज्ञौ मुनयश्च तपोन्विताः। वेदोक्तमंत्रैः स्तुवन्ति अनेकक्रतुयाजिनम्
एवं विभवयुक्तस्य राज्ञस्तस्य महात्मनः। क्षुधाया पीड्यते देहं तृष्णया च विशेषतः
स तया पीड्यमानस्तु क्षुधया राजसत्तमः॥ विमानेनाप्यसौ स्वर्गं त्यक्त्वागादृक्षपर्वतम्
यत्रात्ममूर्तिस्तत्रागात्पुरा दग्धा महावने। तत्रास्थीनि स्वयं गृह्य लिहन्नास्ते स पार्थिवः
पुनर्विमानमारुह्य ययौ नाकं नराधिपः। अथ कालेन महता स राजा संशितव्रतः
स्वान्यस्थीनि लिहन्दृष्टो वसिष्ठेन पुरोधसा। उक्तश्च किन्नु राजेन्द्र स्वास्थिभक्षो नराधिप
एवमुक्तस्ततो राजा वसिष्ठेन महर्षिणा। उवाच वचनं चेदं श्वेतो राजाथ तं मुनिम्
भगवंस्तृट्क्षुधार्तोहमन्नदानं पुरा मया। न दत्तं मुनिशार्दूल तेन मां क्षुत्प्रबाधते
एवमुक्तस्तदा राजा वसिष्ठो मुनिपुंगवः। उवाच तं नृपं भूयो वाक्यमेतन्महामुनिः
किं ते करोमि राजेंद्र क्षुधितस्य विशेषतः। वस्तु कस्यापि किंचिद्धि नाऽदत्तमुपतिष्ठति1.34.
रत्नहेमप्रदानेन भोगवान्जायते नरः। अन्नदानप्रदानेन सर्वकामैः प्रदीपितः
तन्न दत्तं त्वया राजन्स्तोकं मत्वा नराधिपः। श्वेत उवाच॥ अदत्तस्य च संभूतिर्यथा भवति मे गुरो
वसिष्ठ त्वत्प्रसादेन तन्ममाचक्ष्व पृच्छतः। वसिष्ठ उवाच॥ अस्त्येकं कारणं येन जायते नात्र संशयः
तच्छृणुष्व नरव्याघ्र कथ्यमानं मया तव। आसीद्राजा पुरा कल्पे विनीताश्वेति कीर्तितः
स चाश्वमेधमारेभे यज्ञं कर्तुं वरं नृपः। यजनांते द्विजेंद्रेभ्यो दत्तं गोऽश्वादि याचितम्
नान्नं दत्तं तेन किंचित्स्वल्पं मत्वा यथा त्वया। ततः कालेन महता मृतोऽसौ जाह्नवी तटे
मायापुर्यां विनीताश्वः सार्वभौमोऽभवन्नृपः। स्वर्गं च गतवान्सोऽपि यथा राजा भवान्प्रभो
असावपि क्षुधाविष्ट एवमेवागतोऽभवत्। मर्त्यलोके नदीतीरे गंगायां नीलपर्वते
विमानेनार्कवर्णेन भास्वता देववन्नृप। ददर्श तत्स्वकं देहं तथा स्वं च पुरोहितम्
होतारं ब्राह्मणं नाम यजंतं जाह्नवी तटे। तं दृष्ट्वाऽसावपि पुनः पर्यपृच्छदिद्वजोत्तमम्
क्षुधायाः कारणं राजन्स होता तमुवाच ह। तिलधेनुं च वै राजन्घृतधेनुं च सत्तम