एवं जल्पंति विबुधा मनसा चिंतयंति च। ब्रह्मयज्ञं च कार्तिक्यां कदा द्रक्ष्यामहे नृप
एवं ते विधिरुद्दिष्टो मयायं कुरुसत्तम। देवगंधर्वयक्षाणां सर्वदा दुर्लभो ह्यसौ
एवं यो वेत्ति तत्त्वेन यश्च पश्यति मंडलम्। यश्चेमं शृणुयाच्चैव सर्वे मुक्ता इति श्रुतिः
अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम्। येन लक्ष्मीर्धृतिस्तुष्टिः पुष्टिश्चापि भवेन्नृणाम्
सर्वे ग्रहास्सदा सौम्या जायंते येन पार्थिव। आदित्यवारं हस्तेन पूर्वमादाय भक्तितः
भक्तैकेन क्षिपेत्तावद्यावत्सप्त च संख्यया। ततस्तु सप्तमे पूर्णे कुर्याद्ब्राह्मणभोजनम्
आदित्यं चैव सौवर्णं कृत्वा यत्नेन मानवः। रक्तवस्त्रयुगच्छन्नं छत्रिकां पादुके तथा
उपानहौ च दातव्ये स्थापयेत्ताम्रभाजने। घृतेन स्नपनं कृत्वा संपूर्णांग द्विजातये
दापयेत्कृत्यविदुषे ब्राह्मणाय विशेषतः। एवं कृतौ फलं तस्य भवेदारोग्यमुत्तमम्
द्रव्यसंपत्समग्राप्तिरिति पौराणिकी क्रिया। अविसंवादिनी चेयं शांति पुष्टिप्रदा नृणाम्
तद्वच्चित्रासु संगृह्य सोमवारं विचक्षणः। रात्रिभक्षः क्षिपेदष्टौ सोमवारान्प्रयत्नतः
प्रत्येकं ब्राह्मणा भोज्या यथाशक्ति विचक्षणाः। नवमे तु ततः पूर्णे कुर्याद्ब्राह्मणभोजनम्
वस्त्रयुग्मं च दातव्यं ततः सोमं प्रदापयेत्। कांस्यभाजनसंस्थं तु क्षीरसंपूरितं ततः
तद्वच्छत्रं पादुके च तथोपानत्समन्वितम्। संपूर्णांगाय दातव्यं ब्राह्मणाय विशेषतः
स्वात्यामंगारकं पूज्य क्षपयेन्नक्तभोजनैः। अष्टावेवं च यावच्च कुर्याद्ब्राह्मणभोजनम्
अंगारकं च सौवर्णं स्थापितं ताम्रभाजने। दापयेद्ब्राह्मणायाथ संपूर्णांगाय चैव हि
नक्षत्रानुक्रमेणैव क्षिपेन्नक्तानि सप्त वै। अष्टमे तु क्रमात्खेटान्सौवर्णान्दापयेद्बुधः
अग्निकार्यं च कुर्वीत यथादृष्टं विधानतः। एवं कृते भवेद्यद्वै तन्निबोध नराधिप
असौम्याश्च ग्रहास्सर्वे सौम्यरूपा भवंति च॥ सर्वे रोगा विनश्यन्ति तुष्टिमायान्ति देवताः
न विरुन्धन्ति तं नागाः पितरस्तर्पितास्तथा। दुस्स्वप्ननाशो भवति शृण्वतां पठतां तथा
यदि भौमो रविसुतो भास्करो राहुणा सह। केतुश्च मूर्ध्नि तिष्ठंति रौद्राः पीडाकरा ग्रहाः
अनेन कृतमात्रेण ससौभाग्या भवंति हि। य एवं कुरुते राजन्सदाभक्तिसमन्वितः
तस्य सानुग्रहाः सर्वे शांतिं यच्छंति नान्यथा। शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेत्
लोहेन कारयेच्चैनान्ब्राह्मणेभ्यश्च दापयेत्। कृष्णं वस्त्रयुगं देयमेतेषां प्रीणनाय वै
सौवर्णां गाश्च दातव्याः शांतिश्रीविजयेप्सुभिः। व्रतांते सर्व एते हि ग्रहास्सौवर्णका नृप
दातव्याः शांतिमिच्छद्भिर्व्रतांते द्विजभोजनम्। यथाशक्ति दक्षिणा च ग्रहाणां प्रीतये तथा
अल्पायासेन राजेंद्र सर्वान्कामानवाप्नुयात्। शंकराज्ज्ञानमन्विच्छेदारोग्यं भास्करात्तथा३२७ (ज्ञान)॥ हुताशनाद्धनमिच्छेद्गतिमिच्छेज्जनार्दनात् । (गति)॥ ब्राह्म्यं पितामहाच्चैव सर्वजन्तुप्रशांतिदम्
भीष्म उवाच॥ यस्त्वया कथितो यज्ञो यज्वनां तु फलं महत्। तथायुषस्स्वल्पतया अन्यैः प्राप्तुं न शक्यते
स्वल्यायासेन यत्पुण्यं संवत्सरमुपोषजम्। भवेत्तन्मे मुनिश्रेष्ठ कथयस्व महाफलम्
पुलस्त्य उवाच॥ इदमर्थं महाराज श्वेतो राजा महायशाः। वसिष्ठं पृष्टवान्प्रश्नं क्षुधया पीडितो भृशम्