तिसृभिस्तु व्याहृतिभिर्देवदेवस्य सन्निधौ। होमांते दीक्षितः पश्चाद्दापयेद्गुरुदक्षिणाम्
हस्त्यश्वयानशकटहेमधान्यादिकं नृप। दापयेद्गुरवे प्राज्ञो मध्यमे मध्यमं तथा
दापयेदपरे युग्मं सहिरण्यं तु तद्गुरोः। एवं कृते तु यत्पुण्यं महत्संजायते तथा
तन्न शक्यं निगदितुमपि वर्षशतैरपि। दीक्षितोथ पुरा भूत्वा पाद्मं वै शृणुयाद्यदि
तेन वेदाः पुराणानि सर्वमंत्रास्ससंग्रहाः। जप्तास्स्युः पुष्करे तीर्थे प्रयागे सिंधुसागरे
देवह्रदे कुरुक्षेत्रे वाराणस्यां विशेषतः। ग्रहणे विषुवे चैव यत्फलं जपतां भवेत्
फलं शतगुणं तच्च पुष्करस्थं पितामहम्। दृष्ट्वा प्राप्नोति विविधान्कामान्कामयते यदि
पूजां वैधानिकीं कृत्वा दीक्षितो यः शृणोति च। देवा अपि तपः कृत्वा ध्यायंति च वदन्ति च
कदा मे भारते वर्षे जन्म स्यादिति पार्थिव। दीक्षिताश्च भविष्यामः पाद्मं श्रोष्यामहे कदा
पाद्मं तु षोडशात्मानं न्यस्य देहे कदा वयम्। यास्यामस्तु परं स्थानं यद्गत्वा न पुनर्भवेत्1.34.
एवं जल्पंति विबुधा मनसा चिंतयंति च। ब्रह्मयज्ञं च कार्तिक्यां कदा द्रक्ष्यामहे नृप
एवं ते विधिरुद्दिष्टो मयायं कुरुसत्तम। देवगंधर्वयक्षाणां सर्वदा दुर्लभो ह्यसौ
एवं यो वेत्ति तत्त्वेन यश्च पश्यति मंडलम्। यश्चेमं शृणुयाच्चैव सर्वे मुक्ता इति श्रुतिः
अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम्। येन लक्ष्मीर्धृतिस्तुष्टिः पुष्टिश्चापि भवेन्नृणाम्
सर्वे ग्रहास्सदा सौम्या जायंते येन पार्थिव। आदित्यवारं हस्तेन पूर्वमादाय भक्तितः
भक्तैकेन क्षिपेत्तावद्यावत्सप्त च संख्यया। ततस्तु सप्तमे पूर्णे कुर्याद्ब्राह्मणभोजनम्
आदित्यं चैव सौवर्णं कृत्वा यत्नेन मानवः। रक्तवस्त्रयुगच्छन्नं छत्रिकां पादुके तथा
उपानहौ च दातव्ये स्थापयेत्ताम्रभाजने। घृतेन स्नपनं कृत्वा संपूर्णांग द्विजातये
दापयेत्कृत्यविदुषे ब्राह्मणाय विशेषतः। एवं कृतौ फलं तस्य भवेदारोग्यमुत्तमम्
द्रव्यसंपत्समग्राप्तिरिति पौराणिकी क्रिया। अविसंवादिनी चेयं शांति पुष्टिप्रदा नृणाम्
तद्वच्चित्रासु संगृह्य सोमवारं विचक्षणः। रात्रिभक्षः क्षिपेदष्टौ सोमवारान्प्रयत्नतः
प्रत्येकं ब्राह्मणा भोज्या यथाशक्ति विचक्षणाः। नवमे तु ततः पूर्णे कुर्याद्ब्राह्मणभोजनम्
वस्त्रयुग्मं च दातव्यं ततः सोमं प्रदापयेत्। कांस्यभाजनसंस्थं तु क्षीरसंपूरितं ततः
तद्वच्छत्रं पादुके च तथोपानत्समन्वितम्। संपूर्णांगाय दातव्यं ब्राह्मणाय विशेषतः
स्वात्यामंगारकं पूज्य क्षपयेन्नक्तभोजनैः। अष्टावेवं च यावच्च कुर्याद्ब्राह्मणभोजनम्
अंगारकं च सौवर्णं स्थापितं ताम्रभाजने। दापयेद्ब्राह्मणायाथ संपूर्णांगाय चैव हि
नक्षत्रानुक्रमेणैव क्षिपेन्नक्तानि सप्त वै। अष्टमे तु क्रमात्खेटान्सौवर्णान्दापयेद्बुधः
अग्निकार्यं च कुर्वीत यथादृष्टं विधानतः। एवं कृते भवेद्यद्वै तन्निबोध नराधिप
असौम्याश्च ग्रहास्सर्वे सौम्यरूपा भवंति च॥ सर्वे रोगा विनश्यन्ति तुष्टिमायान्ति देवताः
न विरुन्धन्ति तं नागाः पितरस्तर्पितास्तथा। दुस्स्वप्ननाशो भवति शृण्वतां पठतां तथा