दृष्टं मे महती चिंता तदा जाता न संशयः । अनेन पयसा चैव पक्वमन्नं यदा भवेत्
तदात्र सर्वे विप्राश्च म्रियंते भोजनात्ततः । एवं विचार्य तत्स्वामिन्दुग्धं पीतं तदा मया
तदा दृष्टं तु वध्वा वै तया मे ताडनं कृतम् । चरामि तेन संभग्ना किं करोमि सुदुःखिता
तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनीं प्रति । शृणु शुनि प्रवक्ष्यामि मम दुःखस्य कारणम्
अस्याहं तु पिता साक्षात्पूर्वजन्मनि वै शुनि । अद्य वै भोजिता विप्रा दत्तमन्नं तु भूरिशः
न तृणं नोदकं चैव ममाग्रे संनिवेदितम् । तेन दुःखेन मे दुःखं जातं बहुतरं तदा
एतत्कथानकं श्रुत्वा रात्रौ निद्रामवाप न । मम चिंता तु तत्रैव जाता वै ऋषिसत्तम
वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणि । अनयोश्च महद्दुःखं किं करोमीति चिंतयन् । आगतस्त्वत्समीपे तु ममकष्टं निवारय
ऋषिरुवाच- उग्रजन्मन्शृणुष्व त्वं पूर्वजन्मनि यत्कृतम् । अयं वै तु द्विजश्रेष्ठो कुंडने नगरे शुभे
मासे भाद्रपदे चैव पंचमी या समागता । तद्व्रतं तेन नाज्ञातं पितुः श्राद्धादिकारणात्
स्त्रीधर्मेण तु संप्राप्ता क्षयहेतु तदानघ । तया चैव कृतं सर्वं ब्राह्मणानां च भोजनम्
न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मना । प्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति । तेन पापेन सा जाता शुनी स्वगृहचारिणी । बलीवर्दस्त्वयं जातः कर्मणानेन सुव्रत
उग्रजन्मोवाच- व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रत । ब्रूहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम
ऋषिरुवाच- मासे भाद्रपदे शुक्ले जायते ऋषिपंचमी । रजसा विकृतं पापं नश्यते करणाद्यतः
पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनी । नद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा
गोमयं मंडलं कुर्यात्कुंभं तत्रैव विन्यसेत् । तस्योपरि न्यसेत्पात्रमृषिधान्येन पूरितम् 6.77.
यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथा । स्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः
आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैः । नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम्
एकभक्तेन कर्तव्यमृषीणामर्चनं तदा । पूजयेत्परया भक्त्या मंत्रेण विधिपूर्वकम्
निर्वापं सघृतं देयं दक्षिणासंयुतं तदा । देयं विप्राय विधिवदृषीणां प्रीयतां प्रति
कथां श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणाम् । धूपं दीपं च नैवेद्यमर्घ्यं दद्यात्पृथक्पृथक्
ऋषयः संतु मे नित्यं व्रतसंपूर्णकारिणः । पूजां गृह्णंतु मद्दत्तां ऋषिभ्योऽस्तु नमोनमः
पुलस्त्यः पुलहश्चैव क्रतुः प्राचेतसस्तथा । वसिष्ठमरिचात्रेया अर्घं गृह्णंतु वो नमः
एवं पूजा प्रकर्त्तव्या धूपैर्दीपैर्मनोरमैः । पितॄणां जायते मुक्तिः कृतस्यास्य प्रभावतः
पूर्वकर्मविपाकेन रजसा दोषभावतः । कृतं ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः
तद्व्रतं च कृतं तेन मुक्त्यर्थं पितृहेतवे । ते गता मुक्तिमार्गेण आशीर्वादपरायणाः
ऋषिपंचमीव्रतं पुण्यं विप्राय परिकीर्तितम् । ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः पुण्यभागिनः
ये कुर्वंति नरश्रेष्ठ ऋषिव्रतमनुत्तमम् । भुक्त्वात्र भोगान्विपुलान्यांति विष्णोः पदं तु ते
इतिश्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारद। संवादे ऋषिपंचमीव्रतंनाम सप्तसप्ततितमोऽध्यायः