उत्तरे चैव गायत्री देवी पद्मदलेक्षणा। ऋग्वेदं पूर्वतो न्यस्य यजुर्वेदं च दक्षिणे
पश्चिमे सामवेदं च अथर्वं चोत्तरे तथा। इतिहासपुराणानिच्छंदोज्यौतिषमेवच
धर्मशास्त्राणि चान्यानि इंद्रादि दिक्षु विन्यसेत्। पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे दले
पश्चिमे चानिरुद्धं च वासुदेवमथोत्तरे। पूर्वतो वामदेवं च सद्योजातं तु दक्षिणे
ईशानं पश्चिमे स्थाप्य तत्पुरुषं चोत्तरे तथा। अघोरस्सर्वतः पूज्य एषा पूजा तु मंडले
पूर्वतो भास्करं पूज्य दक्षिणेन दिवाकरं। प्रभाकरं पश्चिमे तु ग्रहराजमथोत्तरे
एवं पूज्य विधानेन ब्रह्माणं परमेश्वरम्। दिङ्मंडले तु विन्यस्य अष्टौ कुंभान्विधानतः
ब्राह्मं तु कलशं मध्ये नवमं तत्र कल्पयेत्। स्नापयेन्मुक्तिकामं तु ब्रह्मणो वै घटेन तु
श्रीकामं वैष्णवेनेह कलशेन तु पार्थिव। राज्यार्थिनं स्नापयेच्च ऐंद्रेण कलशेन तु
द्रव्यप्रतापकामं तु आग्नेय घटवारिणा। मृत्युंजयविधानाय याम्येन स्नापयेन्नरम्
दुष्टप्रध्वंसनायालं नैर्ऋतेन विधीयते। स्नापयेद्वारुणेनाशु पापनाशाय मानवं
शरीरारोग्यकामं तु वायव्येनाभिषेचयेत्। द्रव्यसंपत्तिकामस्य कौबेरेण विधीयते
रौद्रेण ज्ञानकामस्य लोकपालघटास्त्विमे। एकैकेन नरः स्नात्वा सर्वदोषविवर्जितः
जायते ब्रह्मसदृशो राजासद्योऽथ वा नरः। अथवा दिक्षु सर्वासु यथासंख्येन लोकपान्
पूजयेत्तु स्वनाम्ना तु कुंभैरेव विधानतः। एवं संपूज्य देवांस्तु लोकपालान्प्रसन्नधीः
पश्चात्परीक्षितान्शिष्यान्बद्धनेत्रान्प्रवेशयेत्। दग्ध्वाग्नेय्या धारणया वायुना विधुनेत्ततः
सोमेनाप्यायितान्कृत्वा श्रावयेत्समयांस्ततः। न निंद्याद्ब्राह्मणान्देवान्विष्णुं ब्रह्माणमेव च
इंद्रमादित्यमग्निं च लोकपालान्ग्रहांस्तथा॥ गुरुं च ब्राह्मणं वापि मुनींद्रं पूर्वदीक्षितम्
एवं तु समयान्श्राव्य पश्चाद्धोमं तु कारयेत्। ऊँ नमो भगवते ब्रह्मणे सर्वरूपिणे हुंफट्स्वाहा
षोडशाक्षरमंत्रेण होमयेज्ज्वलितेनले। गर्भाधानादिकाः सर्वा आहुतीस्संप्रदापयेत्
तिसृभिस्तु व्याहृतिभिर्देवदेवस्य सन्निधौ। होमांते दीक्षितः पश्चाद्दापयेद्गुरुदक्षिणाम्
हस्त्यश्वयानशकटहेमधान्यादिकं नृप। दापयेद्गुरवे प्राज्ञो मध्यमे मध्यमं तथा
दापयेदपरे युग्मं सहिरण्यं तु तद्गुरोः। एवं कृते तु यत्पुण्यं महत्संजायते तथा
तन्न शक्यं निगदितुमपि वर्षशतैरपि। दीक्षितोथ पुरा भूत्वा पाद्मं वै शृणुयाद्यदि
तेन वेदाः पुराणानि सर्वमंत्रास्ससंग्रहाः। जप्तास्स्युः पुष्करे तीर्थे प्रयागे सिंधुसागरे
देवह्रदे कुरुक्षेत्रे वाराणस्यां विशेषतः। ग्रहणे विषुवे चैव यत्फलं जपतां भवेत्
फलं शतगुणं तच्च पुष्करस्थं पितामहम्। दृष्ट्वा प्राप्नोति विविधान्कामान्कामयते यदि
पूजां वैधानिकीं कृत्वा दीक्षितो यः शृणोति च। देवा अपि तपः कृत्वा ध्यायंति च वदन्ति च
कदा मे भारते वर्षे जन्म स्यादिति पार्थिव। दीक्षिताश्च भविष्यामः पाद्मं श्रोष्यामहे कदा
पाद्मं तु षोडशात्मानं न्यस्य देहे कदा वयम्। यास्यामस्तु परं स्थानं यद्गत्वा न पुनर्भवेत्1.34.