पौर्णमास्यामथ स्नात्वा ततो देवालयं व्रजेत्। गुरुश्च मंडलं भूमौ कल्पितायां तु वर्तयेत्
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः। षोडशारं लिखेत्पद्मं नवधारमथापि वा
अष्टपत्रमथो वापि लिखित्त्वा दर्शयेद्बुधः। नेत्रबंधं तु कुर्वीत सितवस्त्रेण यत्नतः
वर्णानुक्रमतः शिष्यान्पुष्पहस्तान्प्रवेशयेत्। नवनाभं यदा कुर्यान्मंडलं वर्णकैर्बुधः
इंद्राणीपूर्वकं देवमिंद्रमैंद्र्यां तु पूजयेत्। लोकपालैः समं तद्वदग्निं संपूजयेन्नृप
दिशि वह्नेर्यमं याम्यां नैऋत्यां चैव निर्ऋतिम्। वरुणं वारुणाशायां वायुं वायव्यगोचरे
धनदं चोत्तरे न्यस्य रुद्रमीशानगोचरे। कमंडलुं पूर्वतो हि स्रुचं वै दक्षिणे तथा
हंसं वै पश्चिमायां तु उत्तरायां स्रुवं तथा। आग्नेय्यां च ब्रसीं दद्यान्नैर्ऋत्यां पादुके तथा
वायव्यां योगपट्टं च ऐशान्यां च गलंतिकाम्। विष्णुस्तु पूर्वतः पूज्यो दक्षिणे चापि शंकरः
पश्चिमे तु रविर्देव ऋषयश्चोत्तरे तथा। मध्ये स्वयं पद्मजन्मा सावित्री दक्षिणे तथा
उत्तरे चैव गायत्री देवी पद्मदलेक्षणा। ऋग्वेदं पूर्वतो न्यस्य यजुर्वेदं च दक्षिणे
पश्चिमे सामवेदं च अथर्वं चोत्तरे तथा। इतिहासपुराणानिच्छंदोज्यौतिषमेवच
धर्मशास्त्राणि चान्यानि इंद्रादि दिक्षु विन्यसेत्। पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे दले
पश्चिमे चानिरुद्धं च वासुदेवमथोत्तरे। पूर्वतो वामदेवं च सद्योजातं तु दक्षिणे
ईशानं पश्चिमे स्थाप्य तत्पुरुषं चोत्तरे तथा। अघोरस्सर्वतः पूज्य एषा पूजा तु मंडले
पूर्वतो भास्करं पूज्य दक्षिणेन दिवाकरं। प्रभाकरं पश्चिमे तु ग्रहराजमथोत्तरे
एवं पूज्य विधानेन ब्रह्माणं परमेश्वरम्। दिङ्मंडले तु विन्यस्य अष्टौ कुंभान्विधानतः
ब्राह्मं तु कलशं मध्ये नवमं तत्र कल्पयेत्। स्नापयेन्मुक्तिकामं तु ब्रह्मणो वै घटेन तु
श्रीकामं वैष्णवेनेह कलशेन तु पार्थिव। राज्यार्थिनं स्नापयेच्च ऐंद्रेण कलशेन तु
द्रव्यप्रतापकामं तु आग्नेय घटवारिणा। मृत्युंजयविधानाय याम्येन स्नापयेन्नरम्
दुष्टप्रध्वंसनायालं नैर्ऋतेन विधीयते। स्नापयेद्वारुणेनाशु पापनाशाय मानवं
शरीरारोग्यकामं तु वायव्येनाभिषेचयेत्। द्रव्यसंपत्तिकामस्य कौबेरेण विधीयते
रौद्रेण ज्ञानकामस्य लोकपालघटास्त्विमे। एकैकेन नरः स्नात्वा सर्वदोषविवर्जितः
जायते ब्रह्मसदृशो राजासद्योऽथ वा नरः। अथवा दिक्षु सर्वासु यथासंख्येन लोकपान्
पूजयेत्तु स्वनाम्ना तु कुंभैरेव विधानतः। एवं संपूज्य देवांस्तु लोकपालान्प्रसन्नधीः
पश्चात्परीक्षितान्शिष्यान्बद्धनेत्रान्प्रवेशयेत्। दग्ध्वाग्नेय्या धारणया वायुना विधुनेत्ततः
सोमेनाप्यायितान्कृत्वा श्रावयेत्समयांस्ततः। न निंद्याद्ब्राह्मणान्देवान्विष्णुं ब्रह्माणमेव च
इंद्रमादित्यमग्निं च लोकपालान्ग्रहांस्तथा॥ गुरुं च ब्राह्मणं वापि मुनींद्रं पूर्वदीक्षितम्
एवं तु समयान्श्राव्य पश्चाद्धोमं तु कारयेत्। ऊँ नमो भगवते ब्रह्मणे सर्वरूपिणे हुंफट्स्वाहा
षोडशाक्षरमंत्रेण होमयेज्ज्वलितेनले। गर्भाधानादिकाः सर्वा आहुतीस्संप्रदापयेत्