कार्तिके मासि शुक्लायां पौर्णमास्यां विशेषतः। सर्वासु वा यजेदेवं पूर्णिमासु विधानतः
संक्रान्तौ च महाबाहो चन्द्रसूर्यग्रहेपि वा। यः पश्यति विभुं देवं पूजितं गुरुणा नृप
तस्य सद्यो भवेत्तुष्टिः पापध्वंसश्च जायते। स मान्यो देवतानां च भवतीह नराधिप
ब्राह्मणक्षत्रियविशां भक्तानां तु परीक्षणम्। संवत्सरं गुरुः कुर्याज्जातिशौचक्रियादिभिः
उपपन्नमिति ज्ञात्वा हृदये नावधारयेत्॥ तेपि भक्तियुता ध्यात्वा त्वाचार्यं परमेश्वरम्
संवत्सरं गुरौ भक्तिं कुर्युर्विष्णौ यथा तथा। प्रसादयेयुश्च ततः पूर्णे संवत्सरे गुरुम्
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम्। परब्रह्मोपासनेन विरिंच्याराधनेन च
सहस्रशीर्षजप्येन मण्डलब्राह्मणेन च। ध्यानेन स्यात्तथास्माकमुपदेशः प्रदीयताम्
इच्छामो वैदिकीं लक्ष्मीं विशेषेण प्रसीदताम्। अभ्यर्थितो गुरुस्त्वेवं मेधावी तैस्तदा ततः
यथाविधि समभ्यर्चेद्ब्रह्माणं विष्णुमग्रतः। ते बद्धनेत्राः स्वाप्यास्तु कार्तिकस्य चतुर्दशीम्1.34.
ब्राह्मे मुहूर्ते चोत्त्थाय बद्धपद्मासनास्तु ते। ध्यात्वा गुरुं सहस्रारे श्वेतवस्त्रोपवीतकम्
श्वेतमाल्यांबरधरं श्वेतगंधानुलेपनम्। निर्गम्य च बहिर्नद्यां कुर्युर्नित्यमतन्द्रिताः
क्षीरवृक्षोत्थमाचार्यो दापयेद्दन्तधावनम्। ते च तं भक्षयेयुर्हि नदीं गत्वा समुद्रगाम्
इतरद्वा तटाकं वा गृहे वापि विधानतः। तद्भक्षयेयुर्मंत्रेण मंत्रितं परमेष्ठिनः
आपोहिष्ठेति मंत्रेण सप्तकृत्वोभिमंत्रितं। देवस्य त्वेति वै जप्त्वा युंजानेति करे न्यसेत्
इरावत्येति प्रक्षाल्य ब्रह्मोदनेति वै मुखे। भक्षयित्वा क्षिपेद्दूरं पतितं च निरीक्षयेत्
सम्मुखं प्राङ्मुखं वापि विदिशं चापि वा गतम्। संमुखे देवतालब्धिर्मंत्रसिद्धिश्च जायते
पराङ्मुखे दंतकाष्ठे सर्वे देवाः पराङ्मुखाः। उत्तरेण गते तस्मिन्सिद्धिर्भवति वा न वा
दक्षिणेन भवेन्मृत्युर्गुरोस्तस्य न संशयः। प्रेक्ष्याशुभं स्वपेद्भूमौ देवदेवस्य सन्निधौ
स्वप्नान्दृष्ट्वा गुरोरग्रे श्रावयेयुर्विचक्षणाः। ततः शुभाशुभं तत्र लक्षयेत्परमो गुरुः
पौर्णमास्यामथ स्नात्वा ततो देवालयं व्रजेत्। गुरुश्च मंडलं भूमौ कल्पितायां तु वर्तयेत्
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः। षोडशारं लिखेत्पद्मं नवधारमथापि वा
अष्टपत्रमथो वापि लिखित्त्वा दर्शयेद्बुधः। नेत्रबंधं तु कुर्वीत सितवस्त्रेण यत्नतः
वर्णानुक्रमतः शिष्यान्पुष्पहस्तान्प्रवेशयेत्। नवनाभं यदा कुर्यान्मंडलं वर्णकैर्बुधः
इंद्राणीपूर्वकं देवमिंद्रमैंद्र्यां तु पूजयेत्। लोकपालैः समं तद्वदग्निं संपूजयेन्नृप
दिशि वह्नेर्यमं याम्यां नैऋत्यां चैव निर्ऋतिम्। वरुणं वारुणाशायां वायुं वायव्यगोचरे
धनदं चोत्तरे न्यस्य रुद्रमीशानगोचरे। कमंडलुं पूर्वतो हि स्रुचं वै दक्षिणे तथा
हंसं वै पश्चिमायां तु उत्तरायां स्रुवं तथा। आग्नेय्यां च ब्रसीं दद्यान्नैर्ऋत्यां पादुके तथा
वायव्यां योगपट्टं च ऐशान्यां च गलंतिकाम्। विष्णुस्तु पूर्वतः पूज्यो दक्षिणे चापि शंकरः
पश्चिमे तु रविर्देव ऋषयश्चोत्तरे तथा। मध्ये स्वयं पद्मजन्मा सावित्री दक्षिणे तथा