तीर्थे क्षेत्रे गृहे वापि संक्रांतौ ग्रहणेपि वा। विषुवे अयने चापि जन्मर्क्षे च प्रपीडिते
एतान्वै श्राद्धकालांस्तु पुरा स्वायंभुवोब्रवीत्। कृते श्राद्धे न वै पुंसां पीडा भवति देहजा
तदा पुत्रकृतं वापि सर्वं त्यजति दुष्कृतम्। यथा न भविता पीडा ग्रहचोरनृपादिकात्
दुष्कृतं नश्यते सर्वं परत्र च गतिं शुभाम्। लभते नात्र सन्देहः प्रजापतिवचो यथा
कृते युगे पुष्कराणि त्रेतायां नैमिषं स्मृतम्। द्वापरे च कुरुक्षेत्रं कलौ गंगां समाश्रयेत्
दुष्करः पुष्करे वासो दुष्करं पुष्करे तपः। यदन्यत्र कृतं पापं तीर्थे तद्याति लाघवम्
न तीर्थकृतमन्यत्र क्वचित्पापं व्यपोहति। सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलि
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत। सायंप्रातरुपस्पृश्य पुष्करे नियतेन्द्रियः
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति। द्वादशाब्दं द्वादशाहं मासं मासार्धमेव च
यो वसेत्पुष्करे नित्यं स गच्छेत्परमांगतिम्। सर्वेषामेवलोकानांब्रह्मलोकोपरिस्थितः
यइच्छेत्पुष्करंगन्तुंसोनुसेवेतपुष्करम्। यथा लोमविलोमाभ्यां तथा व्यस्तसमस्तयोः
स्नातस्तु पुष्करे सम्यक्कोट्याश्च फलमुश्नुते। विधिवत्क्रियमाणेषु सर्वतीर्थेषु यत्फलम्
पुष्करालोकनादेव नरः प्राप्नोति तत्फलम्। दशकोटिसहस्राणि तीर्थानां वै महीतले
सान्निध्यं पुष्करे तेषां त्रिसंध्यं कुरुनन्दन। यावत्तिष्ठंति गिरयो यावत्तिष्ठन्तिसागराः
तावत्पुष्कर मृत्यूनां ब्रह्मलोको न संशयः। जन्मान्तरसहस्रैश्च आजन्ममरणांन्तिकम्
निर्दहेद्दुष्कृतं सर्वं सकृत्स्नात्वा तु पुष्करे। पुष्करं दुष्करं क्षेत्रं सर्वपापप्रणाशनम्
इदानीं शृणु मे राजन्पञ्चपातकनाशनम्। यजनं देवदेवस्य ब्रह्मपुत्र वसुप्रदम्
इह जन्मनि दारिद्र्य व्याधिकुष्ठादिपीडितः। अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि
तस्य सद्यो भवेल्लक्ष्मीरायुः पूर्णं सुतास्सुखम्। कृत्वा तु मण्डलगतं लोकपालसमन्वितम्
ब्रह्माणं तु परं देवं यः पश्यति विधानतः। पूजितं नवनाभेन मन्त्रमूर्तिमयो निजम्
कार्तिके मासि शुक्लायां पौर्णमास्यां विशेषतः। सर्वासु वा यजेदेवं पूर्णिमासु विधानतः
संक्रान्तौ च महाबाहो चन्द्रसूर्यग्रहेपि वा। यः पश्यति विभुं देवं पूजितं गुरुणा नृप
तस्य सद्यो भवेत्तुष्टिः पापध्वंसश्च जायते। स मान्यो देवतानां च भवतीह नराधिप
ब्राह्मणक्षत्रियविशां भक्तानां तु परीक्षणम्। संवत्सरं गुरुः कुर्याज्जातिशौचक्रियादिभिः
उपपन्नमिति ज्ञात्वा हृदये नावधारयेत्॥ तेपि भक्तियुता ध्यात्वा त्वाचार्यं परमेश्वरम्
संवत्सरं गुरौ भक्तिं कुर्युर्विष्णौ यथा तथा। प्रसादयेयुश्च ततः पूर्णे संवत्सरे गुरुम्
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम्। परब्रह्मोपासनेन विरिंच्याराधनेन च
सहस्रशीर्षजप्येन मण्डलब्राह्मणेन च। ध्यानेन स्यात्तथास्माकमुपदेशः प्रदीयताम्
इच्छामो वैदिकीं लक्ष्मीं विशेषेण प्रसीदताम्। अभ्यर्थितो गुरुस्त्वेवं मेधावी तैस्तदा ततः
यथाविधि समभ्यर्चेद्ब्रह्माणं विष्णुमग्रतः। ते बद्धनेत्राः स्वाप्यास्तु कार्तिकस्य चतुर्दशीम्1.34.