कर्त्तव्यमृषिभिर्दृष्टं पिण्याकेनैंगुदेन वा। तिलपिण्याककैर्देयं भक्तिमद्भिर्नरैः सदा
श्राद्धं तत्र तु कर्तव्यमर्घ्यावाहनवर्जितम्। स्वधां तु गृध्राः काका वा नैव दृष्ट्या हरन्ति ते
श्राद्धं तत्तैर्थिकं प्रोक्तं पितॄणां तृप्तिदं परम्। कर्तव्यं तत्प्रयत्नेन भक्तिरेवात्र कारणम्
भक्त्या तुष्यन्ति पितरस्तुष्टाः कामान्दिशन्ति ते। पुत्रं पौत्रं धनं धान्यं कामान्यान्मनसेच्छति
भक्त्या चाराधितो दद्यान्नृणां प्रीतः पितामहः। अकालेप्यथ काले वा तीर्थे श्राद्धं सदा नरैः
प्राप्तैरेव सदा स्नानं कर्तव्यं पितृतर्पणम्। पिंडदानं च कर्तव्यं पितॄणां चातिवल्लभम्
पितरो हि निरीक्षन्ते गोत्रजं समुपागतम्। आशया परया युक्ताः कांक्षंतस्सलिलं च ते
विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेत्। अच्छिन्ना सन्ततिस्तेषां सदा कालं भविष्यति
पितरः पुत्रदातारं वृद्धिश्राद्धाभिकांक्षिणः। तेन ते सन्ततिच्छेदं न कुर्वन्ति हि कर्हिचित्
अतः श्राद्धं पुरा प्रोक्तं स्वयमेव स्वयंभुवा। गुणोत्तरंतुयत्कार्यंद्विजैःपितृपरायणैः
तीर्थे क्षेत्रे गृहे वापि संक्रांतौ ग्रहणेपि वा। विषुवे अयने चापि जन्मर्क्षे च प्रपीडिते
एतान्वै श्राद्धकालांस्तु पुरा स्वायंभुवोब्रवीत्। कृते श्राद्धे न वै पुंसां पीडा भवति देहजा
तदा पुत्रकृतं वापि सर्वं त्यजति दुष्कृतम्। यथा न भविता पीडा ग्रहचोरनृपादिकात्
दुष्कृतं नश्यते सर्वं परत्र च गतिं शुभाम्। लभते नात्र सन्देहः प्रजापतिवचो यथा
कृते युगे पुष्कराणि त्रेतायां नैमिषं स्मृतम्। द्वापरे च कुरुक्षेत्रं कलौ गंगां समाश्रयेत्
दुष्करः पुष्करे वासो दुष्करं पुष्करे तपः। यदन्यत्र कृतं पापं तीर्थे तद्याति लाघवम्
न तीर्थकृतमन्यत्र क्वचित्पापं व्यपोहति। सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलि
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत। सायंप्रातरुपस्पृश्य पुष्करे नियतेन्द्रियः
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति। द्वादशाब्दं द्वादशाहं मासं मासार्धमेव च
यो वसेत्पुष्करे नित्यं स गच्छेत्परमांगतिम्। सर्वेषामेवलोकानांब्रह्मलोकोपरिस्थितः
यइच्छेत्पुष्करंगन्तुंसोनुसेवेतपुष्करम्। यथा लोमविलोमाभ्यां तथा व्यस्तसमस्तयोः
स्नातस्तु पुष्करे सम्यक्कोट्याश्च फलमुश्नुते। विधिवत्क्रियमाणेषु सर्वतीर्थेषु यत्फलम्
पुष्करालोकनादेव नरः प्राप्नोति तत्फलम्। दशकोटिसहस्राणि तीर्थानां वै महीतले
सान्निध्यं पुष्करे तेषां त्रिसंध्यं कुरुनन्दन। यावत्तिष्ठंति गिरयो यावत्तिष्ठन्तिसागराः
तावत्पुष्कर मृत्यूनां ब्रह्मलोको न संशयः। जन्मान्तरसहस्रैश्च आजन्ममरणांन्तिकम्
निर्दहेद्दुष्कृतं सर्वं सकृत्स्नात्वा तु पुष्करे। पुष्करं दुष्करं क्षेत्रं सर्वपापप्रणाशनम्
इदानीं शृणु मे राजन्पञ्चपातकनाशनम्। यजनं देवदेवस्य ब्रह्मपुत्र वसुप्रदम्
इह जन्मनि दारिद्र्य व्याधिकुष्ठादिपीडितः। अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि
तस्य सद्यो भवेल्लक्ष्मीरायुः पूर्णं सुतास्सुखम्। कृत्वा तु मण्डलगतं लोकपालसमन्वितम्
ब्रह्माणं तु परं देवं यः पश्यति विधानतः। पूजितं नवनाभेन मन्त्रमूर्तिमयो निजम्