तद्वाक्यं तु तदा देवि श्रुतं पुत्रेण धीमता । ममायं तु पिता साक्षाज्जातो मम गृहे पशुः
इयं तु जननी साक्षान्मम चैव न संशयः । दैवयोगाच्छुनी जाता किं करोमि सुनिश्चयम्
एवं विचार्यासौ विप्रो नैव निद्रामवाप सः । रात्रौ चिंतापरो भूत्वा स्मरन्विश्वेश्वरं परम्
नानाधर्मपरोऽहं च ममैवं च कथं शुभम् । विचारयित्वा च ततो रात्रौ सुप्तस्तदा पुनः
प्रभाते विमले प्राप्ते ऋषीणां पुरतो गतः । तेषां मध्ये वसिष्ठेन तस्य सुस्वागतं कृतम्
ब्रूहि त्वं ब्राह्मणश्रेष्ठ तवागमनकारणम् । इति पृष्टस्तदा विप्रः प्रणाममकरोत्तदा
अद्य मे सफलं जन्म अद्य मे सफला क्रिया । अद्य मे पितरस्तृप्ता दुर्लभात्तव दर्शनात्
यथोक्तं च कृतं श्राद्धं द्विजाश्चैव सुभोजिताः । कुटुंबिनां तु सर्वेषां भोजनं कारितं तथा
भोजनानंतरं प्राप्ता शुनी तत्र उवाच ह । अस्माकं तु गृहे ह्येको बलीवर्दस्तु वर्त्तते
तं पतिं प्रतिवाक्यं यद्दिवज मत्तः शृणुष्व तत् । गृहेस्थितं दुग्धभांडमहिना दूषितं मया
दृष्टं मे महती चिंता तदा जाता न संशयः । अनेन पयसा चैव पक्वमन्नं यदा भवेत्
तदात्र सर्वे विप्राश्च म्रियंते भोजनात्ततः । एवं विचार्य तत्स्वामिन्दुग्धं पीतं तदा मया
तदा दृष्टं तु वध्वा वै तया मे ताडनं कृतम् । चरामि तेन संभग्ना किं करोमि सुदुःखिता
तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनीं प्रति । शृणु शुनि प्रवक्ष्यामि मम दुःखस्य कारणम्
अस्याहं तु पिता साक्षात्पूर्वजन्मनि वै शुनि । अद्य वै भोजिता विप्रा दत्तमन्नं तु भूरिशः
न तृणं नोदकं चैव ममाग्रे संनिवेदितम् । तेन दुःखेन मे दुःखं जातं बहुतरं तदा
एतत्कथानकं श्रुत्वा रात्रौ निद्रामवाप न । मम चिंता तु तत्रैव जाता वै ऋषिसत्तम
वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणि । अनयोश्च महद्दुःखं किं करोमीति चिंतयन् । आगतस्त्वत्समीपे तु ममकष्टं निवारय
ऋषिरुवाच- उग्रजन्मन्शृणुष्व त्वं पूर्वजन्मनि यत्कृतम् । अयं वै तु द्विजश्रेष्ठो कुंडने नगरे शुभे
मासे भाद्रपदे चैव पंचमी या समागता । तद्व्रतं तेन नाज्ञातं पितुः श्राद्धादिकारणात्
स्त्रीधर्मेण तु संप्राप्ता क्षयहेतु तदानघ । तया चैव कृतं सर्वं ब्राह्मणानां च भोजनम्
न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मना । प्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति । तेन पापेन सा जाता शुनी स्वगृहचारिणी । बलीवर्दस्त्वयं जातः कर्मणानेन सुव्रत
उग्रजन्मोवाच- व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रत । ब्रूहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम
ऋषिरुवाच- मासे भाद्रपदे शुक्ले जायते ऋषिपंचमी । रजसा विकृतं पापं नश्यते करणाद्यतः
पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनी । नद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा
गोमयं मंडलं कुर्यात्कुंभं तत्रैव विन्यसेत् । तस्योपरि न्यसेत्पात्रमृषिधान्येन पूरितम् 6.77.
यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथा । स्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः
आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैः । नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम्
एकभक्तेन कर्तव्यमृषीणामर्चनं तदा । पूजयेत्परया भक्त्या मंत्रेण विधिपूर्वकम्