अथवा या कुमारीणां भक्त्या दद्याच्च भोजनम्। तस्याः कुले भवेद्वंध्या न कदाचिच्च दुर्भगा
न कन्या जननी क्वापि न भर्तुर्या न वल्लभा। तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे तु भोजनम्
पारत्रमैहिकं वापि कामयद्भिर्नरैः सदा। दातव्यं सर्वदा भीष्म कटुतैलविवर्जितम्
न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन। भक्ष्यं पंचप्रकारं च रसैः सर्वैस्सुसंस्कृतम्
घृतपूर्यः सुपक्वाश्च बहुक्षीरसमन्विताः। शिखरिणी तथा पेया दधिक्षीरसमन्विता
आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा। धनधान्यां जनोपेतं नारीणां च शताकुलम्
पूपकं शष्कुलं तस्यां जायते नात्र संशयः। न ज्वरो न च संतापो न दुःखं न वियोगिता
असौ तारयते स्वानां कुलानामेकविंशतिं। बंधुभिश्च सुतैश्चैव दासीदासैरनंतकैः
पूरितं च कुलं तस्याः पूरिकां या प्रदास्यति। एधते च चिरं कालं पुत्रपौत्रसमन्वितम्
कुलं च सकलं तस्य शष्कुलं यः प्रयच्छति। पुत्रिण्यो वै दुहितरो बंधुभिः सहितं कुलम्
शिखरिणीप्रदात्रीणां युवतीनां न संशयः। मोदते तु कुलं तस्याः सर्वसिद्धिप्रपूरितम्
मोदकानां प्रदानेन एवमाह प्रजापतिः। एतदेव तु गौरीणां भोजनं हर शस्यते
सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता। सहस्रभोजिनी शंभो जन्मजन्म भविष्यति
पूपानि चैव पुण्यानि कृतानि मधुराणि च। द्राक्षारसप्रधानं च गुडखंडसमन्वितम्
शारदेन तु धान्येन कृत्वा खंडं विमिश्रितत्। स्त्रीणां चैव तु पेयानि भक्ष्याणि च द्विजन्मनाम्
इह चाविकवासांसि वर्षायोग्यानि सर्वशः। यानियानि च पेयानि तानि योग्यानि दापयेत्
प्रतिपूज्य विधानेन वसुदानैः सकंचुकैः। कुंकुमेनानुलिप्तांग्यः स्रग्दामभिरलंकृताः
दत्वा तूपानहावङ्घ्र्योर्नारिकेलं करे तथा। अक्ष्णोश्चैवांजनं दत्वा सिंदूरं चैव मस्तके
गुडं फलानि हृद्यानि वांछितानि मृदूनि च। हस्ते दत्वा सपात्राणि प्रणिपत्य विसर्जयेत्
स्वयं भुंजीत वै पश्चात्सबंधुर्बालकैः सह। अथवा नैव संपत्तिस्तीर्थे दानं च भाजनम्1.34.
गृहे गतः प्रदास्यामि हृष्टो देव प्रसीद मे। एवमेव पितॄणां च आगत्य स्वीय मंदिरे
पिंडप्रदानपूर्वं तु श्राद्धं कुर्याद्विधानतः। पितरस्तस्य वै तृप्ता भवंति ब्रह्मणो दिनम्
तीर्थादष्टगुणं पुण्यं स्वगृहे ददतां शिव। न च पश्यंति वै नीचाः श्राद्धं द्विजातिभिः कृतं
एकांते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते। नीचदृष्ट्या हतं तच्च पितॄन्नैवोपतिष्ठति
तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत्। पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयंभुवा
गौरीभक्त्याधिका या तु शस्ता ज्ञातक्रिया तु सा। राजसी मनसा ज्ञाता जनानां कीर्तिदायिनी
गुप्तं दानं सदा देयमात्मनो हितमिच्छता। पक्वान्नं दृश्यतामेति दीयमानं जनैर्भुवि
दृश्यमानं तु तत्तुष्ट्यै दृश्यते नेह कर्हिचित्। एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता
भवने नात्र संदेहः सत्यं पौराणिकं वचः। तीर्थे तु ब्राह्मणं नैव परीक्षेत कथंचन
अन्नार्थिनमनुप्राप्तं भोज्यं तं मनुरब्रवीत्। सक्तुभिः पिंडदानं च संयावैः पायसेन वा